________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३४३ व्यावर्तते स ततो भिन्नः, यथा-घटेऽनुवर्तमाने ततो व्यावर्तमानः पटः, व्यावर्तते च धर्मिण्यनुवर्तमानेऽपि आविर्भाव तिरोभावासङ्गी धर्मकलाप इति कथमसौ ततो न भिद्यते ? इति, ततो धर्मी तदवस्थ एवेति कथं परिणतो नाम ?, नार्थान्तरभूतयोः कट-पटयोरुत्पादविनाशाभ्यामचलितरूपस्य घटादेः परिणामो भवति, अतिप्रसङ्गात् , अन्यथा चैतन्यमपि परिणामि स्यात् । तत्सम्बद्धयोधर्मयोरुत्पादविनाशाभ्यां तस्य परिणामोऽभ्युपगम्यते, नान्यस्य, चैतन्यसम्बद्धस्तु न कोऽपि धर्म उत्पाद-विनाशयोगी, कूटस्थनित्यत्वश्रुतेस्तस्य निर्धर्मकत्वाभ्युपगमादिति नातिप्रसङ्ग इति चेत् ? न-तथापि धर्मितनो धर्मिणः। यदा च तिरोभुताऽऽविर्भूतधर्मयोधर्मिणो भिन्नत्वं तदा तत्तिरोभावाऽऽविर्भावतोन धर्मिणः किमपि जातमिति तदवस्थो धर्मी परिणतो न भवेदित्याह- तत इति धर्मतो भेदादित्यर्थः अविचलितस्वरूपस्य धर्मिणः परिणामाऽभावमेवोपपादयति-नहीति-अस्य 'भवति इत्यनेन सम्बन्धः। 'अतिप्रसङ्गाद्' इत्युक्तं तदेव दर्शयति - अन्यथेतिअन्योत्पाद-विनाशाभ्यामप्यन्यस्य परिणामाभ्युपगमे अचेतनधर्मोत्पाद विनाशाभ्यां पुरुषस्य स्वरूपमविचलितं चैतन्यमपि परिणामि प्रसज्यत इत्यर्थः । अन्योऽपि यो यस्य सम्बद्धस्तस्यैवोत्पाद विनाशतस्तस्य परिणामोऽभ्युपगम्यते, चैतन्यसम्बन्धी च धर्मो नोत्पादविनाशशालीत्यचेतनसम्बद्धधर्मोत्पाद-विनाशाभ्यामचेतनस्यैव परिणामोनचेतनस्येत्येवमतिप्रसङ्गपरिहारमाशङ्कते तत्सम्बद्धयोरिति-चैतन्य सम्बद्धधर्मो नोत्पाद विनाशयोगीति कथमवगम्यत इत्यपेक्षायामाहकूटस्थानन्यत्वश्रुतरिति-" असङ्गो ह्ययं पुरुषः' “नित्यं विज्ञानमानन्दं ब्रह्म०" "अविनाशी वा रेऽयमात्मा०' इत्यादिश्रुतेश्चैतन्यस्वरूपस्यात्मानो निर्धर्मकत्वाभ्युपगमात् तत्तत्सम्बद्धस्य धर्मस्यैवाभावेन न तदुत्पाद-विनाशाभ्यामात्मनः परिणामप्रसङ्ग इत्यर्थः, प्रतिक्षिपतिनेति । तथाऽपि तत्सम्बद्धयोधर्मयोरुत्पाद-विनाशाभ्यां परिणामाभ्यु.