Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 406
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ ३४३ व्यावर्तते स ततो भिन्नः, यथा-घटेऽनुवर्तमाने ततो व्यावर्तमानः पटः, व्यावर्तते च धर्मिण्यनुवर्तमानेऽपि आविर्भाव तिरोभावासङ्गी धर्मकलाप इति कथमसौ ततो न भिद्यते ? इति, ततो धर्मी तदवस्थ एवेति कथं परिणतो नाम ?, नार्थान्तरभूतयोः कट-पटयोरुत्पादविनाशाभ्यामचलितरूपस्य घटादेः परिणामो भवति, अतिप्रसङ्गात् , अन्यथा चैतन्यमपि परिणामि स्यात् । तत्सम्बद्धयोधर्मयोरुत्पादविनाशाभ्यां तस्य परिणामोऽभ्युपगम्यते, नान्यस्य, चैतन्यसम्बद्धस्तु न कोऽपि धर्म उत्पाद-विनाशयोगी, कूटस्थनित्यत्वश्रुतेस्तस्य निर्धर्मकत्वाभ्युपगमादिति नातिप्रसङ्ग इति चेत् ? न-तथापि धर्मितनो धर्मिणः। यदा च तिरोभुताऽऽविर्भूतधर्मयोधर्मिणो भिन्नत्वं तदा तत्तिरोभावाऽऽविर्भावतोन धर्मिणः किमपि जातमिति तदवस्थो धर्मी परिणतो न भवेदित्याह- तत इति धर्मतो भेदादित्यर्थः अविचलितस्वरूपस्य धर्मिणः परिणामाऽभावमेवोपपादयति-नहीति-अस्य 'भवति इत्यनेन सम्बन्धः। 'अतिप्रसङ्गाद्' इत्युक्तं तदेव दर्शयति - अन्यथेतिअन्योत्पाद-विनाशाभ्यामप्यन्यस्य परिणामाभ्युपगमे अचेतनधर्मोत्पाद विनाशाभ्यां पुरुषस्य स्वरूपमविचलितं चैतन्यमपि परिणामि प्रसज्यत इत्यर्थः । अन्योऽपि यो यस्य सम्बद्धस्तस्यैवोत्पाद विनाशतस्तस्य परिणामोऽभ्युपगम्यते, चैतन्यसम्बन्धी च धर्मो नोत्पादविनाशशालीत्यचेतनसम्बद्धधर्मोत्पाद-विनाशाभ्यामचेतनस्यैव परिणामोनचेतनस्येत्येवमतिप्रसङ्गपरिहारमाशङ्कते तत्सम्बद्धयोरिति-चैतन्य सम्बद्धधर्मो नोत्पाद विनाशयोगीति कथमवगम्यत इत्यपेक्षायामाहकूटस्थानन्यत्वश्रुतरिति-" असङ्गो ह्ययं पुरुषः' “नित्यं विज्ञानमानन्दं ब्रह्म०" "अविनाशी वा रेऽयमात्मा०' इत्यादिश्रुतेश्चैतन्यस्वरूपस्यात्मानो निर्धर्मकत्वाभ्युपगमात् तत्तत्सम्बद्धस्य धर्मस्यैवाभावेन न तदुत्पाद-विनाशाभ्यामात्मनः परिणामप्रसङ्ग इत्यर्थः, प्रतिक्षिपतिनेति । तथाऽपि तत्सम्बद्धयोधर्मयोरुत्पाद-विनाशाभ्यां परिणामाभ्यु.

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452