Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 399
________________ ३३६ ] [ तत्ववोधिनीविवृति विभूषितम् एवमिदं महदादिकार्यमपि विभक्तमुपलभ्यमानं प्रधानं कारणं साधयतीति ४ । तथा वैश्वरूप्यं नाम त्रयो लोकाः, तदविभागात् प्रधानसिद्धि:, तथाहि - प्रलयकाले पश्च भूतानि पञ्चसु तन्मात्रेष्वविभागं गच्छन्ति, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारस्तु बुद्धौ, बुद्धिः प्रधान इति । अविभागोऽविवेकः, यथा - क्षीरावस्थायामन्यत् क्षीरमन्यद् दधीति विवेको न शक्योऽभिधातुम्, तद्वत् प्रलयकाले ' इदं व्यक्तमिदमव्यक्तम्' इति विवेकोऽशक्यक्रिय इति मन्यामहे - अस्ति प्रधानम्, यत्र महदादिलिङ्गमविभागं गच्छतीति ५ ॥ सत्त्वरजस्तमोलक्षण सामान्यमेकमचेतनं द्रव्यम्, अनेकं च चेतनम्, द्रव्यमर्थोऽस्तीत्यशुद्धद्रव्यार्थिको व्यवहारनयः साङ्ख्य दर्शन रूपः प्रवृत्तः । सोऽयं मिथ्या, विचारासहत्वात् । तथाहि - ' प्रधानादेव महदादिकार्य भेदाः प्रवर्तन्ते ' इति यदुक्तं तत्र यदि महदादयः कार्यविशेषाः मृत्पिण्डाद् विभक्त उपलभ्यते तथा । ' अविभागाद् वैश्वरूप्यस्य' इति पञ्चमहेतुं भावयति - तथेति । तदविभागात् लोकत्रयाविभागात् । अघिभागतः प्रधानसिद्धिं समर्थयति तथाहीति । अविभागात् प्रधानसिद्धिरभिमता, तत्राविभाग एव क इत्यपेक्षायामाह - अविभागोऽविवेक इति । अविवेकमेव रष्टान्तावष्टम्भेन दान्तिके दर्शयति- यथेति । अशुद्धद्रव्यार्थिकस्य व्यवहारनयस्य सायदर्शनरूपत्वमुपपादयति- सत्त्वेति । द्रव्यमर्थोऽस्तीति द्रव्यार्थिकः, तत्र महासामान्यशुद्धसत्व लक्षणद्रव्यविषयकस्य सङ्ग्रहन यस्य शुद्धद्रव्यार्थिकत्वम, व्यव हारे व सायदर्शनरूपे एकद्रव्यविषयकत्वाऽनेकद्रव्यविषयकत्वयोसङ्गावादशुद्धद्रव्यार्थिकत्वमिति व्यवहारनयमूलकत्वेन प्रपञ्चितस्य सामन्यदर्शनस्य विचाराऽसहत्वेन मिथ्यात्वं व्यवस्थापयति-सोऽयमिति

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452