Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 402
________________ ममेकान्तव्यवस्थाप्रकरणम्] [३३९ हेतुमचादिधर्मयुक्तव्यक्तविपरीतमव्यक्तमित्येतदपि बालप्रला. पानुकारि, नहि यद् यतोऽव्यतिरिक्तस्वभावं तत् ततो विपरीतं युक्तम् , भेदव्यवहारोच्छेदप्रसङ्गात् , सत्व-रजस्तमसां चैतन्यानामपि "यदेव." इति - कार्य-कारणयोरभेदे क्षीरकारणकं दधि क्षीररूपमेव, क्षीरं च दधिरूपमेवेति स्यात् , लोके च क्षीरदध्नोभिन्नतयैवानुभव इत्यनुभववाधितं क्षीरं दधि दधि क्षीरमित्येवं विन्ध्यवासिना सावयाचार्यण स्वगतं विन्ध्यवासित्वं पाषाणमयस्थानवासित्वम् , पाषाणमयस्थाननिवासिनां भिल्लादीनामतिजाड्यं भवति, तद्वद् बाधितमर्थं वदतःसाङ्ख्याचार्यज्याप्यतिजाड्यमिति तत् ख्यापितमित्येवमसत्कार्यवादिभिः साङ्ख्याचार्यो यदुपहस्यते तत् सुष्वेव ॥ ___एवं “हेतुमदनित्यमव्यापि०" इत्यादिकारिफया व्यक्तस्य महदादेहतुमत्त्वादियोगस्तद्वैपरीत्यं चाव्यक्तस्य प्रधानस्येत्येतदपि महदादेः प्रधानाभिन्नत्वे न युक्तम् , भेद एव विरुद्धधर्मोपपत्ते भेदे इत्याह- हेतुमत्त्वादीति। 'नहि' इत्यस्य 'युक्तम्' इत्यनेनान्वयः । वैपरीत्ये विरुद्धधर्माध्यासो भवति, 'अयमेव भेदो भेदहेतुर्वा, यदुतविरुद्धधर्माध्यासः' इति वचनाद् विरुद्धधर्माध्यासनियतो भेदः एवं चाभेदे विरुद्धधर्माध्यातासम्भवान्न व्यक्तरीत्यमव्यक्तस्य, अमेदे ऽपि च विरुद्धधर्माध्यासाभ्युपगमे भेदनियततैव विरुद्धधर्माध्यासस्य न भवेदिति ततो भेदव्यवहारस्योच्छेद एव प्रसज्यत इत्याह- भेदव्यवहारोच्छेदप्रसङ्गादिति । यदा च व्यक्तादभिन्नऽप्यव्यक्ते वैपरीत्यं तर्हि प्रकृति पुरुषयोरभेदेऽपि वैपरीत्यस्य सम्भवेन तयोर्भेदाभ्युपगमो निनिमित्त एव भवेदित्याह- सत्त्व-रज-स्तमसामिति । दण्डे सति घटो भवति, दण्डाभावे घटो न भवतीत्येवमन्वय-व्यतिरेकाभ्यां दण्डघटयोः कार्य-कारणभावो गृह्यत इति दण्डाद् घटो भवतीत्येवं वक्तुमभ्युपगन्तुं च युज्यते, प्रधाने सति महदादिकं भवति, प्रधानाभावे महदादिकं न भवतीत्येवमन्वय व्यतिरेकयोरनुपलम्भादभावे 'प्रधा

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452