Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 397
________________ ३३४ ] [ तत्त्वबोधिनीविवृतिविभूषितम् स्यादेतत्- एवं हि नाम सत्कार्य सिद्ध्यतु, प्रधानादेव महदादिकार्यभेदा इत्येतत् तु कथं सिध्यति ?, उच्यते "भेदानां परिमाणात्, समन्वयाच्छक्तितः प्रवृत्तेश्च । कारण-कार्यविभागादविभागाद् वैश्वरूप्यस्य" ॥ साङ्खयकारिका० १५] भेदानां महदादीनाम् , परिमाणं दृश्यते- एका बुद्धिः, एको. ऽहङ्कारः, पश्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि इति, ततस्तत्कारणमेकमेष्टव्यम्,परिमितत्वेनोपलभ्यमानघटादेरिव मृदादि, तदेव प्रधानम् १ । तथा भेदानां समन्वयात्- कारगजात्यनुवृत्तिदर्शनात् ,यजातिसमन्वितं हि यदुपलभ्यते तत् तन्मयकारणसम्भूतम् , यथा-घटशरावादयो मृजात्यन्विता मृदात्मककारणसम्भूताः, 'बीजादिकं विद्यमानकार्यकं कारणत्वाद्' इत्येवंरूपः ‘करणं न भवेद्' इति प्रसङ्गस्य विपर्ययः। उपसंहरति- इति सिद्धमिति। प्रधानादेव मेहदादीनां प्रादुर्भावा नान्यस्मात् कारणादित्येतदसहमानस्य परस्याशङ्कां समाधातुमुपन्यस्यति- स्यादेतदिति । एवं हि असदकरणादि. हेतुपञ्चकैः। समाधते- उच्यत इति। " मेदानां०" इति साङ्घकारिकां विवृणोति- भेदानामिति । परिमागं परिमितत्वम् तत् स्पष्टपति- एका बुद्धिरिति- 'बुद्धयाइय एककारणकाः परिमितत्वाद् घटादिवद्' इत्यनुमानमत्राभिमतमावेदयितुमाह- तत इति- मेवानां परिमितत्वा दित्यर्थः। तत्कारणं महदादिभेदकारणम् । तदेव प्रधान परिमितानां बुद्धयादीनां यदेवाऽपरिमितमेकं कारणं तत् प्रधानं प्रकृतिर्भवतीति। . समन्वयाख्यद्वितीयहेतुतः प्रधानं साधयति-तथेति । 'समन्वयाद्' इत्यस्य फलितार्थकथनम्- ‘कारणजात्यनुवृत्तिदर्शनाद् ' इति । 'बुद्धयादयः सुख-दुःख-मो हात्मककारणसम्भूताः सुखदुःखमोहात्मकत्वाद्' इति विशेषानुमानेऽभिमते साध्य-साधनविशेषयोरविनाभावस्य कुत्रापि दृष्टान्ते ऽदर्शनेन साध्य साधनसामान्यव्याप्तिमेवोपदर्शयति- यजाती

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452