Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 395
________________ ३३२ ] [ तत्त्वबोधिनीविवृतिविभूषितम् क्रियम् । न च प्रागसदपि सामग्रीसम्पत्तौ सदवस्थाप्रतिपत्तेविक्रियत इति शक्यक्रियम् ? तस्य विकृताविष्यमाणायां निरुपाख्यास्माऽसद्रूपहानिप्रसङ्गात् , नासतः स्वभावापरित्यागे सद्रूपतापत्तियुक्ता, परित्यागे वा नासदेव सद्रूपता प्रतिपन्नमिति सिद्धयेत् , अन्यदेव हि सद्रूपमन्यच्चाऽसद्रूपम्, परस्परपरिहारेण तयोरवस्थितस्वात् , तस्माद् यद् असत् तद् अशक्यक्रियमेव, तथाभूतकाये'अनाधेयातिशयत्वाद् ' इति हेतुः। शशविषाणवदिति- यथा शशविषाणमसदित्यनुपाख्यत्वादनाधेयातिशयम् , तत्त्वाचाशक्यक्रियं न केनापि कत्तु शक्यते तथेत्यर्थः। ननु पूर्वमसदपि सामग्रीसम्पत्त्या सदवस्थाप्राप्त्या विक्रियामामोतीति शक्यक्रियं भवतीत्याशङ्कय प्रतिक्षिपतिन चेति । निषेधे हेतुमाह- तस्येति-प्रागसतः कार्यस्येत्यर्थः, संस्थानाद्यवाप्तिलक्षणविकाराभ्युपगमे तस्य यथाविधधर्मवत्वेन सोपाख्यत्वतो निरुपाख्यलक्षणस्याऽसद्रूपस्य हानिः प्रसज्यते, ततो नाऽसतो विकृतिसम्भव इत्यर्थः। विकृतावसद्रूपहानिप्रसङ्गो योऽभिहितस्तदुपपादनायाह- नहीति- अस्य 'उक्ता' इत्यनेनान्वयः। ननु पूर्वमसदपि निरुपाख्य लक्षणस्वस्वभावं परित्यज्यैव सद्रूपतामाप्नोतीत्यत आहपरित्यागे वेति । असत्स्वभावपरित्यागें वेत्यर्थः, तथा चासत्स्वभावपरित्यागे तदानीं नासदिति नासदेव सद्रूपताप्रतिपन्नम् , किन्त्वन्य. देव असत् , अन्यच्च सद्रूपताभाजनमिति । एतदेव स्पष्टयति- अन्यदेवेति। हि यतः। कथं सद्रूपाऽसदूपयोरन्यत्वमित्यपेक्षायामाहपरस्परपरिहारेणेति- यन्न सत् तदसत् , यन्नाऽसत् तत् सदित्येवं परस्परव्यवच्छेदेनेत्यर्थः । तयोः सद्रूपाऽसद्रूपयोः। एवं च असद्रूपं विक्रियां नाप्नोत्येवेत्यनाधेयातिशयस्य तस्य न शक्यक्रियत्वमित्युपसंहरतितस्मादिति । भवत्वसदशक्यक्रियम्, एवंविधमपि तत् करोतु कारण. मित्यत आह- तथाभूतेति अशक्यक्रियेत्यर्थः। तच्च कारणानामशक्यकारित्वं च, यद्यशक्यक्रियमपि कार्य करोति कारणं तर्हि शशशृङ्गादि

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452