Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 392
________________ भनेकातिव्यवस्थाप्रकरणम् ] [ ३२९ " असदकरणादुपादानग्रहणात् सर्वसम्भवाऽभावात् । सशक्तस्य शक्यकारणात, कारणभावाच्च सत्कार्यम्"। [साङ्ख्यकारिका-९ ] यद्यसत् क्रियेत, तदा नभोनलिनमपि क्रियेत, न चैवं भवति, तस्माद् यत् क्रियते तिलादिभिस्तलादिकार्य तत् तस्मात् प्रागपि शक्तिरूपेण सिद्धम्, व्यक्तिरूपेण तु तत् तदा कापिलैरपि नेष्यते, इति न व्यवहारबाधः १। तथा यधसत्कारणे कार्य भवेत् तदा शयेनाह- अत्रेति- कारणात्मनि कार्यमस्तीति प्रतिज्ञात इत्यर्थः । इदम् “असदकरणाद्" इत्यादिनाऽनन्तरमेव वक्ष्यमाणम्। 'कार्यमुत्पत्तितः प्रागपि कारणात्मनि सद्' इति प्रतिज्ञा, : असदकरणाद्' इत्यादिकं तत्र हेतुवचनम् । असतः शशशुङ्गादेः कदाचिदपि केनापि कारणेन करणम्- उत्पादनं न भवति, तद् यदि कार्यत्वेन सम्मतं घट-पटादिकमपि स्वकारणे कपाल तन्त्वादावुत्पत्तितः प्रागसदेव भवेत् , ततस्तस्यापि करणं न स्याद्, भवति च तस्य करणम् , अत उत्पत्तितः प्रागपि कारणात्मनि तदस्तीत्यभिप्रायेणोक्तम् 'असदकरणाद्' इति हेतुं भावयति- यद्यसत्क्रियेतेति । न चैवं भवति असतो नभोनलिनस्य करणं न भवति। तस्मात् असतोऽकरणात् । तत् तैलादिकार्यम् , तस्मात् तैलायुत्पत्तिकालात्। शक्तिरूपेण कारणा स्मतालक्षणशक्तिरूपेण । व्यक्तिरूपेण तैलादिविशिष्टसंस्थानाविर्भावलक्षणव्यक्तिरूपेण ! तत् तैलादिकम् । तदा तैलादिस्वरूपाविर्भावपूर्वकाले। कापिलैरपि सत्कार्यवादिभिः साङ्ख्यैरपि, अपिना असत्कार्यवादिभिस्तु शक्तिरूपेणाऽपि तदानीं तदनभ्युपगच्छद्भिर्व्यक्तिरूपेण सुतरां नेष्यत इत्यस्य सूचनम् । इति न व्यवहारबाधः एतस्मात् कारणादुत्पत्तितः प्राग् यः कार्यस्यासत्त्वव्यवहारस्तस्य न बाधा, तदानीं तदसत्त्व. व्यवहारस्य व्यक्तिरूपेण तदसत्त्वविषयकत्वाद् व्यक्तिरूपेण तदसत्त्वस्य भाषादुपपद्यत पव तथा व्यवहार इति एवं तन्तुषूत्पत्तितः प्राप

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452