Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 390
________________ भनेकान्तव्यवस्थाप्रकरणम् ] [ ३२७ गच्छतीति कृत्वा लिङ्गं च व्यक्तम्, तथाहि-प्रलयकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, सोऽपि बुद्धौ, सापि प्रधाने, न त्वेवमव्यक्तं कचिदपि लयं गच्छति; लीनं वाऽव्यक्तलक्षणमर्थ गमयति कार्यत्वादिति लिङ्गं व्यक्तम् , न त्वेवमव्यक्तम् , अकार्यत्वात् कार्योन्मुखरूपानुपलम्भेन तस्य कारणलिङ्गस्वाभावाच्च, सावयवं व्यक्तम् , शब्द-स्पर्श रूप-रस गन्धात्मकैरवयवैयुक्तत्वात् , न चैवमव्यक्तम् , तत्र शब्दादिव्यक्तीनामनुपलब्धेः, तथा यथा 'पितरि जीवति पुत्रो न स्वतत्रः' तथा व्यक्तं सदा कारणायत्तत्वात् परतन्त्रम्, नैवमव्यक्तम् , अकारणाधीनत्वात् , सर्वदा तस्येति ।। अव्यक्तमाश्रितं न भवति । तत्र हेतुः- अक. यत्वात् तस्येति-प्रधानस्याऽकार्यत्वान्न कस्मिन्नपि तदुत्पद्यत इत्यतोऽनाश्रितमित्यर्थः। लय. गामित्वलक्षणलिङ्गत्व-तदगामित्वलक्षणालिङ्गत्वाभ्यां तयोर्वलक्षण्यमित्याह- लयमिति । निरुक्तस्वरूपलिङ्गत्वमेव व्यक्तस्य भावयतितथाहीत्यादिना- कार्य कारणे विलीयत इति भूतानि कार्याणि कारणेषु तन्मात्रेषु लीयन्ते, एवमग्रेऽपि । अहङ्कारे 'लीयन्ते' इत्यनुकर्षः, एवमत्रेऽपि । सोऽपि अहङ्कारोऽपि, अत्र ववनविपरिणामेन ‘लीयते' इति सम्बन्धः, एवमग्रेऽपि । साऽपि बुद्धिरपि। उक्तस्वरूपलिङ्गत्वं न प्रधान इत्याह- न त्वेव मति । कार्यस्वरूपतया गमकत्वं लिङ्गत्वमिति पक्षान्तराश्रयणेन व्यक्तस्य लिङ्गत्वमव्यक्तस्थाऽलिङ्गत्वमुपपादयतिलीनं वेति । 'न त्वेवमव्यकम्' इत्यस्य समर्थनायाह- अक य वादिति। तस्य प्रधानस्य । सावयत्व निरवयत्वाभ्यां व्यक्ता-ऽध्यक्तयोर्वेलक्षण्यमुपपादयति- स वयवति । तत्र प्रधाने । परतन्त्रत्वा ऽपरतन्त्रत्वाभ्यां तयोलक्षण्यमावेदयति- तथेति । कारणायत्तत्वलक्षणं पारतन्त्रमव्यक्तस्य कारणाभावान्नास्तीत्याह- अकारणाधीनत्वादिति। समाधत्ते

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452