Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 388
________________ मनेकान्तव्यवस्थाप्रकरणम् ] [ ३२५ तस्मात् त्रैगुण्यादिना तद्रूपा एवं कार्यभेदाः प्रवर्तन्ते । यथोक्तम् "त्रिगुणमविवेकि विषयः, सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं, तद्विपरीतस्तथा च पुमान्"॥ [साङ्खयकारिका-११] इति । अथ यदि तद्रूपा एव कार्यभेदाः कथं शास्त्रे व्यक्ता-ऽव्यक्तयो_लक्षण्योपवर्णनम् ? " हेतुमदनित्यमव्यापि, सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतत्रं, व्यक्तं विपरीतमव्यक्तम्" ॥ . . [साङ्ख्यकारिका-१०] इति क्रियमाणं शोमेत ?। अत्र ह्ययमर्थ:-हेतुमत्- कारणवद् व्यक्तमेव, बुद्ध्यादीनामेव प्रधानादिहेतुमचात्, न त्वेवमव्यक्तं कुतश्चित् , यतः, अनित्यम् , अन्यतो हेतुमचाऽसिद्धरेतद् हेत्वभिकारणयोस्तादात्म्यमुपसंहरति- तस्मादिति । तद्रूपा एव प्रधानरूपा एव । उक्तार्थे साजयकारिकां संवादकतया दर्शयति- तदुक्तमिति । "त्रिगुणं० " इति कारिका निरूपितार्था एव । तद्विपरीतः त्रैगुण्याद्यभावात् प्रधान-व्यक्ताभ्यां विलक्षणः । तथा च व्यापकत्वादिना प्रधानसदृशश्च, पुमान् कूटस्थनित्यश्चेतनः पुरुषः ।। ननु सायमते यदि प्रधानान्महदादेरभिन्नत्वमेव तर्हि साङ्ख्यशास्त्र एव तयोर्वैलक्षण्योपवर्णनसङ्गतमित्याशङ्कते- अथेति । तद्रूपा एवं कारणीभूतप्रधानात्मका एव । कथम् ' इत्यस्य 'शोमेत' इत्यने नान्वयः । शास्त्र साङ्ख्यग्रन्थे । वैलक्षण्योपवर्णनं "हेतुमद्" इत्यादिस्वरूपेण क्रियमाणम् कथं शोमेत इन्यन्वयः। " हेतुमद" इत्यादि. कारिकार्थमुपदर्शयति- अत्रेति- " हेतुमद्" इत्यादिकारिकायामित्यर्थः। व्यक्तमेव बुद्धद्यादिकमेव- अत्रेव हेतुमाह- बुद्धयःदीनामेवेति । एवकारव्यवच्छेद्यमुपदर्शयति-न विति। अव्यक्त प्रधानम् , एवं हेतुमत् ।

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452