Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 391
________________ -३२८ ] [ तत्वबोधिनीधिवृत्तिविभूषितम् न परमार्थतस्ताप्येऽपि प्रकृति - विकृतिभेदेन तयोर्भेदाऽवि रोधात् विकाराणां स्वभाव तत्रैगुण्यरूपेण प्रकृतिरूपत्वेऽपि सच्च-रजस्तमसात्कटत्व विशेषान्महदादिभेदेन सर्गवैचित्र्यसिद्धेः, वैधर्म्य तन्न तु भेद इति कारणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति । अत्रेदं हेतु कदम्बमुद्भावयन्ति - मेति । तद्रूप्येऽपि महदादेः प्रकृत्यात्मकत्वेऽपि । प्रकृति-विकृतिभेदेन प्रधानं प्रकृतिः, महदादिकं विकृतिरित्येवं प्रकृति-विकृतिभेदेन । . तयोः प्रधान महदाद्योः । ताद्रूप्ये सति भेदः कथमित्यपेक्षायामाह - विकाराणामिति - महदादीनामित्यर्थः । स्वभावत इति- प्रतिक्षेपं सत्त्वं सत्त्वरूपेण परिणमते, रजो रजोरूपेण, तमस्तमोरूपेणेत्येवं यः स्वभावः कारणगतः स कार्येऽपि, तस्मादित्यर्थः । त्रैगुण्यरूपेणेतिनिरुक्तस्वभावतस्त्रैगुण्यं यथा प्रकृत्यवस्थायां तथा त्रिकृत्यवस्थायामपीति तेन त्रैगुण्यरूपेणेत्यर्थः । प्रकृतेः प्रकृतिरूपत्वं सत्त्व-रज- स्तमोरूपत्वम्, तच विकृतावपि, पतावांस्तु विशेषः प्रकृत्यवस्थायां गुणानां समभावेन व्यवस्थानं विकृत्यवस्थायां तु विषमभावेनेति सम-विषमः भाचाऽविवक्षयोभयोरपि त्रैगुण्यरूपेणैकत्वमिति कृत्वा प्रकृतिरूपत्वेइपीति । सात्विक - राजस- तामसभेदेन बुद्ध्यादिनां त्रैविध्यम्, तत्र यस्मिन् बुद्धयादौ रजस्तमोगुणद्वयापेक्षया सत्वस्योत्कटत्यं तत् साविकम् एवं राजस - तामसे अपि बोध्ये, तादृशोत्कटत्वविशेषतः साविक - राजस - तामसबुद्धयादिभेदेन सर्गवैचित्र्यसिद्धिरित्याहसत्त्वरजस्तमसामिति । अयं च वैधम्र्म्यात्मा भेदो न स्वरूपभेद इति तादृशवैधर्म्य सद्भावेऽपि कारणात्मत्वं कार्यस्य न विरुद्धयत इति कारणात्मनि कार्यमस्तीति प्रतिज्ञातं साङ्गय स्याऽनाबाधमित्याहवैधम्यं ह्येतदिति । कारणात्मनि कार्यमस्तीति प्रतिज्ञामात्रेण न सत्कार्यवादसिद्धिः, तथा सति कारणात्मनि कार्य नास्तीति प्रतिज्ञामात्रेणा: सत्कार्यवादोऽपि सिध्येदित्यतस्तत्र हेतुरवश्यमेवोद्भावनीय इत्या• " /

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452