Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 369
________________ ३०६ ] [ तत्त्वबोधिनीविवृतिविभूषितम् क्रमिकनयवाक्यार्थज्ञानजन्यमहावाक्यार्थज्ञानरूपप्रमाणात्मकैकाध्य. वसायोपपत्तिरिति वाच्यम् , न्यायवाक्यस्थलेऽपि प्रतीत्यसमुत्पादे नैकैकजनितखण्डवाक्यार्थज्ञानसमुदायस्यैव महावाक्यार्थज्ञानत्वे नास्माभिरभ्युपगमात् , शबलाध्यवसायान्यथानुपपत्त्या परमतस्या युक्तत्वात् , अन्यथाऽङ्गुलिद्वयसंयोगस्थानीयोभयवादारम्भप्रसङ्गाच किञ्च, इयं कल्पना रत्नावलीदृष्टान्तेन नय-प्रमाणात्मकैकचैतन्योप पादकसम्मतिवचनविरुद्धत्वादेवानुपादेया, एवं हि तत् "जहऽणेगलक्खण-गुणा, वेरुलियाई मणी विसंजुत्ता । रयणावलिववएस, ण लहंति महग्ध त्थामुल्ला वि॥" सम्मति० का० १, गा० २२ 'न च' इत्यस्य वाच्यम्' इत्यनेनान्वयः। परेषां नैयायिकादीनाम् । अवयवेति- प्रतिज्ञाद्यवयवेत्यर्थः। न्यायवाक्येति- प्रतिज्ञाद्यवयवपञ्चकात्मकमहावाक्यलक्षणन्यायवाक्येत्यर्थः। अस्नाकमपि जैनानामपि । प्रत्येकमवयववाक्यार्थज्ञानपञ्चभ्यो महावाक्यस्वरूपन्यायवाक्यार्थज्ञानमुपजायत इति नास्माभिरुपेयते, किन्तु पूर्वपूर्वावयववाक्यार्थज्ञान प्रतीत्योत्तरोत्तरावयववाक्यार्थज्ञानमुपजायत इत्येवं पूर्वापरभावेनोपजायमानखण्डवाक्यार्थशान समुदायस्यैव महावाक्यार्थज्ञानत्वेन जैन रभ्युपगमादिति निषेधहेतुमुपदर्शयति- न्यायवाक्यस्थलेऽपीति- अपिना नयवाक्यस्थले क्रमिकनयवाक्यार्थज्ञानसमुदायस्यैव प्रमाणात्मकत्वम्, न तु समूहालम्बनात्मकैकज्ञानस्य प्रमाणत्वमित्यस्याऽऽनेडनम् । एवमेव शबलाध्यवसायसम्भवो नान्यथेत्यतोऽतिरिक्तमहावाक्यार्थज्ञानपरस्य न्यायमतस्यायुक्तत्वादित्याह- शबलेति । अन्यथा सकलनयार्थविषयकसमूहालम्बनात्मकैकप्रमाणशानाभ्युपगमे।सम्मतिवचनविरोधादपि नोक्तकल्पना भद्रेत्याह- किञ्चति । 'इयं कल्पना' इत्यस्य 'अनुपादेया' इत्यनेनान्वयः। तत् सम्मतिवचनम् ।

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452