Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 363
________________ ३०० ] [ तत्त्ववोधिनीविवृतिविभूषितम् अवस्तु-इतरनयप्राधान्यो पस्थितिजनिततनयाप्रामाण्यनिश्चयकृतावस्तुत्वनिश्चयविषयः, तथा चैतदम्युच्चयार्थमुक्तम्उप्पजंति चयंति अ, भावा णियमेण पजवणयस्स । दवट्टियस्स सवं, सया अणुप्पण्णमविणहूँ ।। [सम्मतौ का० १,गा० ११] नन्वेवं सङग्रह व्यवहारयोरवधारणांशे द्वयोरपि मिथ्यात्वं स्यात् सामान्य - विशेषान्यतराभाववद्विशेष्यकत्वाभाववत्यन्यतरस्मिस्तद 'अवस्तु' इत्यस्योक्तार्थदाढाय पर्यवसितमर्थमुपदर्शयति- अवस्तुइतिरेति- इतरनयेन पर्यायार्थिकनयेन, प्रधान्येन या पर्यायस्योपस्थितिः, तया जानितो यो द्रव्याथिकनयाऽप्रामाण्यनिश्चयः, तत्कृतस्यावस्तुत्व. निश्चयस्य विपयो द्रव्यार्थिकवक्तव्यो भवति, एवमितरनयेन-द्रव्या थिंकनयेन, प्राधान्येन या द्रव्यस्योपस्थितिः, तया जनितो यः पर्या यार्थिकनयाग्रामाण्यनिश्चयः, तत्कृतस्यावस्तुत्वनिश्चयस्य विषयः पर्यायाथिकवक्तव्यो भवतीत्यर्थः । उक्तोऽस्तिदोपपद्येत यदि पर्याय वक्तव्यो द्रव्यार्थिकवक्तव्यश्च परस्परविरुद्धो भवेदिति तद्विरोधाव. गमनाय सम्मतिगाथामवतार्य दर्शयति-तथा चेति । " उप्पजति. "इति" उत्पद्यन्ते च्यवन्ते च भावा नियमेन पर्यवनयस्य । द्रव्यार्थिकस्य सर्व सदाऽनुत्पन्नमविनष्टम् " ॥ इति संस्कृतम् । शङ्कते- नन्विति । एवम् एकनयवक्तव्यस्याऽन्यनयेनावस्तुत्वे । अवधारणांशे सामान्यमेवास्ति न विशेषाः, विशेषा एव सन्ति न सामान्यमित्येवमवधारणस्वरूपे । द्वयोरपि सामान्य-विशेषग्राहिद्रव्यार्थिक-पर्यायार्थिकनययोरपि । मिथ्यात्वं कथमित्यपेक्षाया माह- सामान्येति-वस्तुनि सामान्यविशेषोभयात्मके व्यव. स्थिते तद्विशेष्यकं यद् द्रव्यार्थिकज्ञानं तद् वस्तुगत्या विशेषाभावद्विशेष्यकं न भवति, एवं तद्विशेष्यकं पर्यायार्थिकशानं तद्वस्तुगत्या सामा. न्याभावद्विशेष्यकं न भवति, अथापि द्रव्यार्थिकज्ञानं स्वसंविदितः

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452