________________
३०० ]
[ तत्त्ववोधिनीविवृतिविभूषितम् अवस्तु-इतरनयप्राधान्यो पस्थितिजनिततनयाप्रामाण्यनिश्चयकृतावस्तुत्वनिश्चयविषयः, तथा चैतदम्युच्चयार्थमुक्तम्उप्पजंति चयंति अ, भावा णियमेण पजवणयस्स । दवट्टियस्स सवं, सया अणुप्पण्णमविणहूँ ।।
[सम्मतौ का० १,गा० ११] नन्वेवं सङग्रह व्यवहारयोरवधारणांशे द्वयोरपि मिथ्यात्वं स्यात् सामान्य - विशेषान्यतराभाववद्विशेष्यकत्वाभाववत्यन्यतरस्मिस्तद 'अवस्तु' इत्यस्योक्तार्थदाढाय पर्यवसितमर्थमुपदर्शयति- अवस्तुइतिरेति- इतरनयेन पर्यायार्थिकनयेन, प्रधान्येन या पर्यायस्योपस्थितिः, तया जानितो यो द्रव्याथिकनयाऽप्रामाण्यनिश्चयः, तत्कृतस्यावस्तुत्व. निश्चयस्य विपयो द्रव्यार्थिकवक्तव्यो भवति, एवमितरनयेन-द्रव्या थिंकनयेन, प्राधान्येन या द्रव्यस्योपस्थितिः, तया जनितो यः पर्या यार्थिकनयाग्रामाण्यनिश्चयः, तत्कृतस्यावस्तुत्वनिश्चयस्य विषयः पर्यायाथिकवक्तव्यो भवतीत्यर्थः । उक्तोऽस्तिदोपपद्येत यदि पर्याय वक्तव्यो द्रव्यार्थिकवक्तव्यश्च परस्परविरुद्धो भवेदिति तद्विरोधाव. गमनाय सम्मतिगाथामवतार्य दर्शयति-तथा चेति । " उप्पजति. "इति" उत्पद्यन्ते च्यवन्ते च भावा नियमेन पर्यवनयस्य । द्रव्यार्थिकस्य सर्व सदाऽनुत्पन्नमविनष्टम् " ॥ इति संस्कृतम् । शङ्कते- नन्विति । एवम् एकनयवक्तव्यस्याऽन्यनयेनावस्तुत्वे । अवधारणांशे सामान्यमेवास्ति न विशेषाः, विशेषा एव सन्ति न सामान्यमित्येवमवधारणस्वरूपे । द्वयोरपि सामान्य-विशेषग्राहिद्रव्यार्थिक-पर्यायार्थिकनययोरपि । मिथ्यात्वं कथमित्यपेक्षाया माह- सामान्येति-वस्तुनि सामान्यविशेषोभयात्मके व्यव. स्थिते तद्विशेष्यकं यद् द्रव्यार्थिकज्ञानं तद् वस्तुगत्या विशेषाभावद्विशेष्यकं न भवति, एवं तद्विशेष्यकं पर्यायार्थिकशानं तद्वस्तुगत्या सामा. न्याभावद्विशेष्यकं न भवति, अथापि द्रव्यार्थिकज्ञानं स्वसंविदितः