________________
अनेकान्तव्यावस्थाप्रकरणम् ]
[ २९६ चेत् ? नहि सार्वजनीनो नयान्तरार्थप्रतिभासो नयान्तरेण बाध्यते, किन्तु तदप्रामाण्यं विषयीक्रियत इति ज्ञानप्रामाण्यसंशयादर्थसंशय इव तदप्रामाण्यनिश्चयात् तदर्थाभावनिश्चय इति सामान्यनयाप्रामाण्यनिश्चयप्रयुक्ततदभावनिश्चयत्वमेव तदभावार्थयत्नपरत्वमिति न कोऽपि दोषः । तदिदमुक्तं महावादिना
“दवट्ठियवत्तवं, अवत्थु णियमेण होइ पजाए [पञ्जवणयस्स]| तह पञववत्थुमवत्थुमेव दवट्टियणयस्स ॥
[सम्मतौ का०१,गा०१०]
इत्यनेनान्वयः। तदभावार्थ सामान्याभावार्थम् । समाधत्ते- नहींति-अस्य 'बाध्यते' इत्यनेनान्वयः। सार्वजनीनः सर्वजनसिद्धः। यदि नयान्त. रार्थप्रतिभासो नयान्तरेण न बाध्यते तर्हि तद्विचारस्य प्रयोजनं किम् ? नयान्तरविषयाभावार्थो यत्नोऽपि तस्य कुण्ठ एव, तत्प्रयत्ने. जपि नयान्तरविषयोऽवतिष्ठत एवेति पृच्छति-किन्विति। उत्तरयतितदप्रामाण्यमिति- सामान्यविषयकज्ञानरूपद्रव्यार्थिकनयाऽप्रामाण्यं पर्याव्यार्थिकनयेन विषयीक्रियत इत्यर्थः। ज्ञानेति- यथा तद्विषयकशानप्रामाण्यसंशयात् तदर्थविषयकः संशयस्तथा तदर्थविषयकज्ञानाऽ. प्रामाण्य निश्चयात् तदर्थाभावनिश्चय इत्यतः सामान्यविश्यकज्ञानरूप. द्रव्यार्थिकनयाऽप्रामाण्यनिश्चयप्रयुक्तसामान्याभावविषयकनिश्चयत्वमेव पायार्थिकनयस्य तदभावार्थयत्नपरत्वमित्येवमभ्युपगमे न कश्चिद् दोष इत्यर्थः। उक्तार्थे सम्मतिगाथासंवादमाह- तदिदमुक्तमिति । महावादिना वादिप्रकाण्डेन श्रीसिद्धसेनदिवाकरेण । “दव्वट्ठिय०" इति." द्रव्यार्थिकवक्तव्यम् अवस्तु नियमेन भवति पाये [पर्यवनयस्य] । तथा पर्यववस्तु अवस्त्येव द्रव्यार्थिकनयस्य ।". इति संस्कृतम् ।