________________
२९८ ]
[ तत्त्वबोधिनीषिवृतिविभूषितम् - अत एव द्रव्य-पर्याय विषयताभ्यां तदितराविषयतया वा न शुद्धजातीयद्रव्यार्थिकपर्यायार्थिकमावव्यवस्था, किन्तूपसर्जनीकृता न्यार्थ-प्रधानीकृतस्वार्थविषयतयाऽनेकान्तानुप्रवेशादेव, तदुक्तम्-'
" दवडिओ त्ति तम्हा, णस्थि णओ णियमसुद्धजाईओ। ण य पज्जवडिओ णाम, कोइ भयणाइ उ विसेसो" ॥
[सम्मतौ का० १, गा०९] भजना-उपसर्जन प्रधानभावावगाहना, तथा च कथं वस्तुगत्या सामान्यविषयस्य व्यवहारस्य तदभावार्थ यत्न इति दर्शयति- यत इति । अत एव द्रव्यार्थिकविषयस्य पर्यायाथिकविषयत्वं पर्यायार्थिकविषयस्य द्रव्यार्थिकविषयत्वमित्येवमुभयस्यैकत्र समन्वयादेव । द्रव्येति-द्रव्यविषयकः शुद्धजातीयद्रव्यार्थिकः, पर्यायविषयका शुद्धजातीयपर्यायाथिक इत्येवं शुद्धजातीयद्रव्यार्थिक-पर्यायार्थिकभाव. व्यवस्था, वा अथवा द्रव्येतराविषयकःशुद्धजातीयद्रव्यार्थिक-पर्यायेतरा विषयकः शुद्धजातीयपर्याथार्थिक इत्येवमुक्तव्यवस्था न सम्भवतीत्यर्थः। किन्तु तर्हि कथं द्रव्यार्थिक-पर्यायाथिकव्यवस्था ? उपसर्जनीकृतेति-य उपसर्जनतया पर्यायं विषयीकरोति प्रधानतया द्रव्यं च विषयीकरोति स द्रव्यार्थिकः, यश्चोपसर्जनतया द्रव्यं विषयीकरोति प्रधानतया च पर्याय विषयीकरोति सपर्यायार्थिक इत्येवमुपसर्जनीकृतान्यार्थप्रधानीकृतस्वा. र्थविषयतयाऽनेकान्तानुप्रवेशात् कथञ्चिद्व्यार्थिक-कथञ्चित्पर्यायार्थिकभावस्यैव भद्रेत्यर्थः। उक्तार्थे संवादकतया सम्मतिगाथामुपदर्शयति-तदुक्तमिति । “दव्वढिओ त्ति० " इति-"द्रव्यार्थिक इति तस्मानास्ति नयो नियमशुद्धजातीयः। न च पर्यचाथिको नाम कोऽपि भजनया तु विशेषः॥ इति संस्कृतम् । अत्र भजनापदार्थः क इत्यपेक्षायामाहभजनेति- एकस्योपसर्जनभावेनाऽपरस्य प्रधानभावेन याऽवगाहना सा अजनेत्यर्थः। प्रश्नार्थमुपसंहरति- तथा चेति । 'कथम् ' इत्यस्य यत्नः