________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २९७ यद्वा यद् वस्तु सूक्ष्म सूक्ष्मतर-सूक्ष्मतमादिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता व्युत्क्रान्तं-गृहीत्वा मुक्तं 'किमिदं मृत्सामान्यं यद् घटादिविशेषान्यबुद्धिविषयीभवेद्' इत्येवमाकारेण यावच्छुक्लरूपतमोऽन्त्यो विशेषस्तावत् तत् सर्व द्रव्यार्थिकस्य वचनीयम् , यतो यावदपश्चिमविकल्प-निर्वचनोऽन्त्यो विशेषस्तावद् द्रव्योपयोगः प्रवर्तत इति द्वितीयोऽर्थः।
इयं व्याख्या “ अन्त्यविशेषमारभ्य महासामान्यपर्यन्तं द्रव्योपयोगः प्रवर्तत इति पूर्वपूर्वद्रव्यार्थिकविषयः पर्यायाथिकविषयोऽपि, यत उत्तरोत्तरस्य पूर्वपूर्वापेक्षयाऽधिकव्यापित्वेन द्रव्यत्वे उत्तरोत्तरापेक्षया पूर्वपूर्वस्याऽल्पव्यापित्वेन विशेषरूपतया पर्यायत्वं सुस्पष्टमेव" इत्यर्थस्यावेदिका, इदानी “पूर्वपूर्वव्यापिस्वरूपापेक्षयोत्तरोत्तराव्यापिस्वरूपस्य पर्यायत्वमुत्तरोत्तरव्यापिस्वरूपापेक्षया पूर्वपूर्वव्यापिस्वरूपस्य द्रव्यत्वमित्यवलम्बनेन पर्यायार्थिकविषयस्य द्रव्यार्थिकविषयत्वमन्त्यविशेषं यावद्" इत्यर्थावेदिकां व्याख्यामुपद. र्शयति- यद्वति। 'यद् वस्तु':इत्यस्य 'गृहीत्वा मुक्तम्' इत्यनेनान्वयः। 'व्युत्क्रान्तम् ' इत्यस्य गृहीत्वा मुक्तमित्यर्थः। केन गृहीत्वा मुक्तमित्याकाङ्ख्या 'पर्यायनयेन' इन्यन्वेति। 'पर्यायनयेन' इत्यस्य यद् विशेषणं 'स्थूलरूपं त्यजता' इति तदुपपादकम्- भूक्ष्म-सूक्ष्मतर-सूक्ष्मतमादिबुद्धिना' इति । 'इदं मृत्सामान्यम्' इत्याकारकबुद्धिना पर्यायनयेन मृत्सामान्यं गृहीतं भवति, 'गृहीत्वा मुक्तम् ' इति यदुच्यते तत् कीदृशाकारेण तेनेत्यपेक्षायामाह- किमिदमिति-किमित्याक्षेपे, तेन 'इत्थम्भूतं मृत्सामान्य नास्त्येव, यद् घटादिविशेषान्यबुद्धिविषयी. भवेद्' इत्येवमाकारेण पर्यायनयेन मुक्तमित्यर्थः। कियत्पर्यन्तं गृहीत्वा मुक्तं भवतीत्यपेक्षायामाह- यावच्छुक्लरूपतम इति- अत्र यावत्सूक्ष्मरूपतमः' इति पाठो युक्तः। द्वितीयव्याख्यानतो निर्गलितमर्थमुप