________________
२९६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् त्यक्तस्यार्थस्य द्रव्यार्थिकविषयत्वात् । तदुक्तं सम्मतौ
" पजवणयवुकंत, वत्थू दवद्वियस्स, वत्तवं (वयणिजं)। जावदविओवओगो,अपच्छिमत्रियप्प-निव्वयणो ।
का०१गा०८]त्ति ॥ अत्र न विद्यते पश्चिमे विकल्प-निर्वचने-सविकर पकधी व्यवहारलक्षणे यत्र स तथा, सङ्ग्रहावसान इति यावत्, ततः परं विकल्पवचनाप्रवृत्तेः, ईदशो यावद् द्रव्योपयोगः प्रवर्तते तावद् द्रव्यार्थिकस्य वचनीयं वस्तु, तच्च पर्यायनयेन, वि-विशेषेण, उद्-ऊर्ध्वम्, क्रान्तमेव-विषयीकृतमेव, पर्यायाऽनाक्रान्तसत्तायां मानाभावादित्येकोऽथः। कतया। सूक्ष्मपर्यायनयो थं विशेषं गृह्णाति तं सूक्ष्मतरपर्यायनयः परित्यज्य ततोऽपि विशेष गृह्णाति, एवं ततोऽपिसूक्ष्मतरपर्यायनयस्तं विशेष परित्यज्य ततोऽपि विशेषं गृह्णाहीत्युत्तरोत्तरविशेषापेक्षया पूर्वपूर्वविशेषस्य सामान्यरूपत्वमिति कृत्वा व्यवहारस्यापि सामान्य ग्राहित्वं पूर्वपूर्वविशेषस्योत्तरोत्तरविशेषानुगततया द्रव्यार्थिकनय. विषयत्वादित्याह- सूक्ष्म-सूक्ष्मतरेति ।
उक्तार्थ प्रमाणीकर्तुं सम्मतिगाथासंवादमुपदर्शयति- तदुक्तं सम्मताविति । "पज्जव० " इति-"पर्यवनयव्युत्क्रान्तं वस्तु द्रव्याथिकस्य वचनीयम् । यावद् द्रव्योपयोगोऽपश्चिमविकल्प निर्वचनः" इति संस्कृतम् । उक्तगाथां व्याख्यानयति- अत्रेति । तथा अपश्चिमविकल्प. निर्वचनः। कथमपश्चिमविकल्प-निर्वचनस्य सङ्ग्रहावसानतेत्यपेक्षाया. माह- ततः परमिति-सङ्ग्रहात् परमित्यर्थः, सङ्ग्रहविषयस्य महासोमान्य. सत्तारूपस्य कस्याप्यपेक्षया विशेषरूपत्वाभावेन सामान्यरूपत्वमेव तस्य, न विशेषरूपत्वमिति तद्विषयो द्रव्यार्थिक एव न पर्यायार्थिक इति सङ्ग्रहावसानत्वमवसेयम्। ईदृर्शः अपश्चिमनिर्विकल्पनिर्वचनः।