________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२९५ पृथक्त्वाह नेति नेत्यर्थः, स चायुक्तः-हेमसामान्यस्य यावत्कटकाऽङ्गदादिविशेषपार्थक्याऽसिद्धेः, शाखादियावदवयवभिन्नवृक्षायूचंतासामान्यस्येव यावद्व्यक्तिभिन्नतिर्यक्सामान्यानुपलब्धेः। यद्वा, उक्तसूत्रस्य, 'अधिकश्चयो निश्चयः, यथा-अधिको दाघो निदाघः, स च निश्चयोऽत्र सामान्यम् , तदभावो विनिश्चयः, तदर्थ व्यवहारनयो व्रजति, सामान्याभावार्थ यतते' इत्यर्थः ।
ननु सामान्य-विशेषात्मके वस्तुनि विशेषं गृह्नता व्यवहारेण सामान्यमपि सम्भृतसामग्रीकतया ग्राह्यमेव सूक्ष्म सूक्ष्मतरपर्यायनय. मात्रवाच्यमित्यर्थः । तृतीयचरणार्थमस्फुटत्वात् सन्दिग्धो मा भूदिति स्पष्टयति- अत्र हीति । अत्र उक्तपद्ये। विशेषाः सामान्यस्वरूपा एव, न तद्वयतिरिक्ताः सन्ति, सामान्यं तु विशेषव्यतिरिक्तं समस्तीति सङ्गहवादिनोऽभिप्रायोऽयुक्त इत्याह- स चायुक्त इति । अयुक्तत्वे व्यवहारनयो हेतुमुपदर्शयति- हेमसामान्यस्येति । अनुपलब्ध्या पार्थक्याऽसिद्धिं व्यवस्थापयति- शाखादीति- अनुपलब्धेर्यथो तालामान्य नास्ति तथाऽनुपलब्धेरेव तिर्यक्सामान्यमपि नास्तीति मुकुलितोऽर्थः। _ "वञ्चइ विणिच्छयत्थं० [पत्र-२९१]" इति सूत्रप्रकारान्तरेण व्याकरोति- यद्धेति।अधिकार्थत्वं निरुपसर्गस्य दृष्टान्ततः स्पष्टयति-यथेति। अन्यत्र निश्चयशब्दस्तदभावाऽप्रकारकतत्प्रकारकशाने रूढ' इत्यत आहअत्रेति-प्रकृतसूत्र इत्यर्थः, प्रकृतसूत्रघटकनिश्चयपदप्रतिपाद्यं सामान्यमिति यावत् । तदभावा सामान्याभावः, वेविरुद्धार्थकत्वस्यापि दृष्टत्वेन सामान्यविरुद्धस्य सामान्याभावस्य विनिश्चशब्दप्रतिपाद्यत्वसम्भवात् तदर्थ सामान्याभावार्थम् ॥ - चनु सामान्य-विशेषोभयात्मके वस्तुनि प्रधानतया विशेषं गृह्णता व्यवहारेण गौणतया सामान्यमपि गृह्यत एवेति कथमस्य सामान्याभावार्थ यत इत्याशङ्कते- नन्विति। सम्भृतसामग्रीकतया सम्पूर्णसामग्री