________________
२९४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् पयोगाभावात् , तत्सत्त्वे च सामान्यानुपलम्भस्यैवासिद्धेरिति चेत् ! न-जलाहरण-व्रणपिण्डीप्रदानादिव्यवहारस्य घट-निम्बपत्रादिविशेषरेव क्रियमाणस्य दर्शनेन सामान्यस्य व्यवहाराऽनिर्वाहकत्वेन द्रव्योपयोगेन तद्हेऽपि तस्य दोषजन्यज्ञानतया भ्रमत्वेन ततो वस्त्वसिद्धेः। एतेन यदुच्यते सत्रहवादिना
" यथा कटकशब्दार्थः, पृथक्त्वार्हो न काश्चनात् । न हेम कटकात् तद्वजगच्छब्दार्थताऽवरे॥ १॥[], इति।" तदपास्तम् , अत्र हि 'न हेम कटकाद्' इति-हेम कटकात्
वान सामान्याभावसिद्धिरित्याह - सामान्यग्राहकेति। तत्सत्त्वे च द्रव्यो. पयोगसत्त्वे च । व्यवहारनय उक्ताशङ्कां प्रतिक्षिपति- नेति । विशेषेभ्य एव प्रतिनियतेभ्यः प्रतिनियतानामर्थक्रियाणां दर्शनेन विशेषा एव व्यवहारनिर्वाहकत्वात् सन्तः, सामान्यात् तु नार्थक्रिया काचिद् दृश्यत इति व्यवहारानिर्वाहकत्वादसदेव सामान्यमिति तज्ज्ञानं भ्रम पव, तत्र द्रव्योपयोगो दोषविधयेव कारणमिति दोषजन्यभ्रमात् सामान्यात्मकवस्त्वसिद्धरित्याह- जलाहरणेति । तद्प्रहेऽपि सामान्यज्ञाने ऽपि । तस्य सामान्यज्ञानस्य । ततः भ्रमात्मकसामान्यज्ञानात् । वस्त्वसिद्धेः सामान्यरूपवस्तुनोऽसिद्धः । एतेन' इत्यस्य — अपास्तम्' इत्यनेना. न्वयः। सङ्ग्रहवादिवक्तव्यमेवोपदर्शयति- यथेत्यादिपद्येन- यथा काञ्च नात् पृथक्त्वार्हो न कटकशब्दार्थः, किन्तु काञ्चनमेवानुगामिस्वरूप सत्यमिति तदात्मक एव कटकशब्दार्थः, तद्वत् कटकान्न पृथक्त्वाह हेम न, 'द्वौ नौ प्रकृतमर्थ गमयतः' इति वचनाद् हेम कटकात् पृथकहिमेव, न विद्यते वरमनुगतं यस्मात् तदवरं सत्सा. मान्यम् , तस्मिन्, जगच्छब्दार्थता सर्वशब्दवाच्यता, सर्वस्य वस्तुनः सत्साम्यरूपत्वात् तद्वयतिरिक्तवस्तुनोऽभावात् सत्सामान्यमेव शब्द