________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २९३ अनुपलम्भमात्रं नाऽभावग्राहकम् , आकाशादावतिप्रसङ्गात् , किन्तु योग्यानुपलम्भस्तथा, योग्यत्वं च प्रतियोगि-तद्वयाप्येतरयावत्प्रतियोग्युपलम्भकसमवधानम् , तच्चान नास्त्येव सामान्यग्राहकद्रव्योवार्तामात्रप्रसिद्धं सत्सदितिवचनमात्रप्रसिद्ध सामान्यम् । अनुपलम्भानास्त्येव यदि विशेषेभ्यो व्यतिरिक्तं सामान्यं स्यात् तर्हि विशेषेभ्यो व्यतिरेकेणोपलभ्येत, यद् यतो व्यतिरिक्तं तत् ततो व्यतिरेकेणोपलभ्यते, यथा-पटादिकं घटादितो व्यतिरेकेण, अनुपलम्भनाच नास्त्येव सामान्यमित्यर्थः। अत्र परः शङ्कते - नन्विति। आकाशादावतिप्रसङ्गादितिआकाशादेरप्यनुपलम्भादभावः प्रसज्येतेत्यर्थः। किन्विति- यद्यनुपलम्भमाचं नाऽभावग्राहकं तर्हि कीदृशोऽनुपलम्भोऽभावग्राहक इति? तत्राह• योग्येति । तथा अभावग्राहकः। अनुपलम्भे योग्यत्वं किमित्यपेक्षायामाह-योग्यत्वं चेति। प्रतियोगीति-प्रतियोगि-प्रतियोगिव्याप्यभिन्ना यावन्तः प्रतियोग्युपलम्भकास्तेषां समक्वानं योग्यत्वमित्यर्थः, एतत्सङ्गमना चेत्थम्-यत्राऽऽलोकादिकं चाक्षुषप्रत्यक्षजनकं विद्यते तत्र घटाभावप्रतियोगिघट तद्याव्यघटचक्षुः-संयोग-तद्गतमहत्त्वोद्भूतरूपादिव्यतिरिक्तयावद्धटोपलम्भकसमवधानं समस्ति तत्र यदि घटो भवेत् तदा तदुपलम्भः स्यादेवेति तादृशसमवधानविशिष्टघटानुपल. म्भस्य घटामावव्याप्यत्वेन तत्सत्त्वेऽवश्यं घटाभाव इति, अत्र 'प्रतियोगि तयाप्येतर' इति विशेषणानुक्तौ यावत्प्रतियोग्युपलम्भकमध्ये प्रतियोगितद्वयाप्ययोरपि प्रवेशात् तत्समवधाने प्रतियोग्युपलम्भ एव, न तु तदनुपलम्भ इति तादृशसमवधानविशिष्टप्रतिग्यपनुपलम्भस्याप्रसिद्धिरेवेत्यतस्तदुपादानमिति । तच्च निरुक्तयोग्यत्वं च । अत्र सामान्योपलम्भे । द्रव्योपयोगे सति सामान्योपलम्भो भवति यदा द्रव्योपयोगो नास्ति तदा सदपि सामान्य नोपलभ्यत इति तत्कालीनसामान्यानुपलम्भो न प्रतियोगितद्वयाप्येतरयावत्प्रतियोग्युपलम्भकसमवहित इति योग्यानुपलम्भाभा