________________
२९२]
[ तत्त्वबोधिनीविवृतिविभूषितम् त्ति [विशेषावश्यक-नि० गाथा २१८३] सूत्रम् , व्यवहारः सर्वद्रव्येषु विचार्य विशेषानेव सत्त्वेन व्यवस्थापयतीत्येतदर्थः, इत्थं ह्यसौ विचारयति-ननु सदिति यदुच्यते तद् घट-पटादिविशेषेभ्यः किमन्यनाम ?, वार्तामात्रप्रसिद्ध सामान्यमनुपलम्भान्नास्त्येव । ननु इत्यादिरुपचारोऽस्मिन् बाहुल्येनोपलभ्यते" ॥ [नयोपदेशश्लो० २६] इतिपद्यावसेयम् । .. उक्तपद्यस्य चेत्थं व्याख्यानम्- दह्यत इति- असौ गिरिदह्यते, अत्र गिरिपदस्य गिरिस्थतृणादौ लक्षणा, भूयोदग्धत्वप्रतीतिः प्रयो. जनम् । 'असावध्या याति' इत्यत्राध्वपदस्य अध्वनि गच्छति पुरुषसमुदाये लक्षणा, नैरन्तर्यप्रतीतिः प्रयोजनम् । 'कुण्डिका स्रवति' इत्यत्र कुण्डिकापदस्य कुण्डिकास्थजले लक्षणा, अनिविडत्वप्रतीतिः प्रयोजनम् , सर्वत्रोद्देश्यप्रतीतिलक्ष्यार्थे मुख्यार्थाभेदाध्यवसायात्मकव्यञ्जनामहिम्ना वेति विवेचितमन्यत्र, इत्यादिरुपचारो गौणः, अस्मिन्-व्यवहारनये, बाहुल्येन इतरनयापेक्षया भूम्ना, उपलभ्यते इति । लोकव्यवहारपर इति- यथैव यो लोके व्यवहियते तथैव तमभ्यु. पैतीति लोकव्यवहारपरः, यथा- निश्चयतः पञ्चवर्णेऽपि भृङ्गे लोके 'कृष्णो भ्रमरः' इत्येव व्यवह्रियते, अयमपि कृष्णत्वेन भ्रमरमुपगच्छतीति । व्यवहारस्वरूपप्ररूपकं सूत्रं दर्शयति- “ वच्चइ०" इति। "ब्रजति विनिश्चयार्थ व्यवहारः सर्वद्रव्येषु” इति संस्कृतम् । सूत्रार्थ दर्शयति- व्यवहार इति । 'विचार्य' इति यदुक्तं तदेव भावयति- इत्थनिति- अनन्तरवक्ष्यमाणप्रकारेणेत्यर्थः। हि यतः । असौ व्यवहारः। व्यवहारस्य विचारमुल्लिखति- नन्वित्यादिना। सदिति यदुच्यते सदित्येवंस्वरूपशव्देन यत् सत्तालक्षणं महासामान्यं प्रति. पाद्यते, तत् सत्तासामान्यम , घट-पटादिविशेषेभ्यः, अन्यत्-मिन्नम् , कि नाम-न किश्चित् , घट-पटादयो विशेषा एव सदितिप्रतीतिव्यवहारविषयाः, तेभ्योऽतिरिक्तं सत् सामान्यं नास्त्येवेत्यर्थः।