________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२९१. विस्तरार्थिना वैतद्विषयेऽस्मत्कृतस्याद्वादकल्पलता द्रष्टश्या ॥
सङ्ग्रहनयविचारः सम्पूर्णः॥ दर्शितेयं यथाशास्त्रं, सङ्ग्रहस्य नयस्य दिग् । वेदान्तदृष्टा(राद्धान्तहेतुर्यशोविजयवाचकैः ॥२॥
व्यवहरणं व्यवहारः, व्यवहरतीति वा व्यवहारः, विशेषतोऽवहियते निराक्रियते सामान्यमनेनेति वा व्यवहारः। अयमुपचारबहुलो लोकव्यवहारपर:-"वच्चइ विणिच्छयत्थं, ववहारो सबदधेसु"
सहनयविचारमुपसंहरति- दर्शितेयमिति- वेदान्तराद्धान्तहेतुः सङ्ग्रहस्य नयस्येयं दिक्, यथाशास्त्रं यशोविजयवाचकेदर्शितेति सम्बन्धः, व्यक्तमदः॥ गूढार्थावेदनार्था भवति च विवृतिर्मन्दशिष्यावगत्यै,
नो वाकाठिन्ययोगे सति तत इह नो ताहशो वाग्विलासः। इत्थं सम्यग् विचार्याऽणुमतिरपि मितां चेह लावण्यसूरियाख्यामाख्यातवान् यद्भवतु ननु ततः सङ्ग्रहस्यावबोधः॥
इति सङ्गहनविचारव्याख्या ॥
अथ व्यवहारनयनिरूपणम्व्यवहारनयं निरूपयति- व्यवहरणमिति- एषा निरुक्तिर्भावे, व्यव. हरतीति कर्तरि । करणव्युत्पत्तिमवलम्ब्याह- विशेषत इति-पतव्युत्पत्त्या 'विशेषाभ्युपगमेन सामान्यनिराकरणपरोऽभ्युपगमपरो व्यवहारः' इति व्यवहारनयलक्षगं दर्शितं भवति । एतावता सङ्ग्रहात् सामान्याभ्युपगमपराद तन्निराकरणपरस्यास्य वैलक्षण्येऽवधृतेऽप्यन्यद् वैलक्षण्यप्रयोजकमाह- अयमिति-व्यवहारनय इत्यर्थः। उपचारबहुल इतिउपचारबाहुल्यं चास्य "दह्यते गिरिरध्वाऽसौ याति स्रवति कुण्डिका