________________
२९०]
[ तत्त्वबोधिनीक्वृितिविभूषितम् कश्चित् , तन्म-तत्र यज्ञपदेन " यज्ञानां जपयज्ञोऽहम् " [गीता, १०, २५] इति वचनाद् गायत्रीजपादेरेव निरवद्यस्य ग्रहणात्, हिंसास्मकयागेषु मुमुक्षोरनधिकारात, प्रतिपदोक्तफलत्यागेन विविदिषार्थतया सावधकर्मणोऽप्यधिकाराभ्युपगमे मुमुक्षोः “ श्येनेनाऽभिचरन् यजेत" इत्यादिश्रुतेः श्येनयागादावष्यधिकारप्रसङ्गादित्यादि सांख्याचार्यैरेव निर्णीतमिति किमिति प्रसक्वानुप्रसक्या ।
मुपन्यस्यति-कर्मविधीनामिति । विषयविप्रतिषेधेनेति-कर्मविधीनां स्वर्गादिफल-तत्साधनयागादि-फलकामपुरुषादिकं द्वैतं विषयः, वेदान्तानां चाद्वैतं ब्रह्म विषय इत्येवं विरुद्धविषयत्वेनेत्यर्थः । द्वैतमद्वेतं च वस्तु न सम्भवति, ततो यदि द्वैतं नास्त्यद्वैतम् , यदि तन्नास्ति द्वैतमित्येकस्य मुख्यार्थो बाधित इत्यन्यार्थे तात्पर्यस्यावश्यकत्वेन मुख्यावाधितार्थकस्यान्यस्य प्राधान्येन तदङ्गत्वमेवान्यार्थपरस्येति वेदान्तानामेव द्वैतावगाहिप्रत्यक्षादिप्रमाणवाधितमुख्यार्थकत्वेनान्यार्थपराणां कर्मविधिशेषत्वस्य न्याय्यत्वादित्याह- अन्यतरशेषध्रौव्य इति । वेदान्त्येक देशिनो मतमाशङ्कय प्रतिक्षिपति- तमेवमिति । तत्र "तमेव०" इत्यादिश्रुतौ। यागादेरेव यज्ञपदेन कुतो न ग्रहणमित्याकाङ्क्षायामाह- हिंसास्मकयागेष्विति । येन वाक्येन यागादिकं कर्तव्यत्वेनोपदिश्यते तत्र स्वर्गादिफलमुरदिश्यत एव, तत्प्रतिनियतस्वर्गादिफलं परित्यज्य विविदिषार्थतया हिंसात्मकत्वेन सावद्यस्यापि यागादेः कर्तव्यत्वेन मुमुक्षोस्तत्कामनालक्षणाधिकारस्याभ्युपगमे श्येनयागाद्यधिकारित्व मपि तस्य प्रसज्येतेत्याह- प्रतिपदो कफलत्यागेनेति । वेदान्त्येकदेशिनं प्रत्ययं दोषो नास्माकमेवानुमतः, किन्तु साङ्ख्यावार्याणामपि श्रुत्यनुयायिनामित्यावेदनायोक्तम्- साङ्ख्याचार्यैरेवेति । विस्तार्थिना विस्तरतस्तद्विषयावगमाभिलाषिणा। एतद्विषये वेदान्तानामेव विधिशेषत्वम्, न तु विधीनां वेदान्तशेषत्वमित्युपक्रान्तविषये ॥