________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२८९ "तमेवं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन" इत्यादिश्रुतेः कर्मविधीनामेवान्तःकरणशुद्धिद्वारा विविदिषार्थतया शेषत्वमिति प्रयत्नविषयिणी प्रयोजकपुरुषगताऽपि अपौरुषेयतयाऽभ्युपगते वेदे तत्कर्तृभावाच्छब्दगतैवेत्यत एव सा शाब्दीभावनेति व्यपदिश्यते, तस्याः किं भावयेत् ? इति कर्माकाङ्क्षा 'उक्तयोगविधेयकयत्नं भावयेद्' इत्यनेनोपशाम्यति, केन यत्नं भावयेद् ? इति करणाकाङ्क्षा विधिज्ञानत एव यत्ननिष्पत्तिरिति 'विधिज्ञानेन यत्नं भावयेद्' इत्यनेन शाम्यति, कथमुक्तयागविधेयकयत्नं भावयेत्? इति कथम्भावाकाङ्क्षा तु सम्प्रदानीभूतवायुदेवतास्तुतितो वायुदेवो यतः प्रशस्तस्ततो वायुदेवतोद्देश्यकोत्तयागविधेयकयत्नो मया कर्तव्य इत्येवंप्राशस्त्यज्ञानतः प्ररोचितो यत्नमातिष्टतीति प्राशस्त्यज्ञानेनोपशाम्यतीति भवति शब्दभावनेतिकर्तव्यतांशसाकाङ्क्षस्य विधेः सम्प्र. दानभूतवायुदेवतास्तुतिद्वारेणेतिकतव्यताकाङ्कानिवर्तकत्वेनेति कर्तव्यतांशपूरकत्वात् , यथैकस्याश्वो नष्टो रथो विद्यते, अपरस्याश्वः समस्ति रथो दग्धः, यस्य रथो दग्धः स रथमिच्छति, यस्याश्वो नष्टः सोऽश्चमिच्छतीत्युभयाकाङ्क्षा परस्परं रथा-ऽश्वसंयोजनादश्वसंयुक्तरथेन ग्रामगमनादिलक्षणं फलमुभावप्याप्नुत इत्युभयाकाङ्क्षया फलावाप्तिर्नष्टाश्वः-दग्धरथन्यायः, तेन प्रकृतेऽपि “पशुकामो वायव्यं श्वेतं छागमालमेत' इत्यत्र फलसद्भावादितिकर्तव्यताकाङ्क्षा, "वायुर्वै क्षेपिष्टा देवता' इत्यत्र फलाऽश्रवणात् फलाकाङ्क्षा, इत्युभयाकाङ्क्षारूपप्रकरणतस्तदुभयस्यैकवाक्यतेत्यर्थवादाधिकरणे निर्णीतत्वाद् भवतु “वायुर्वै क्षेपिष्टा देवता' इत्याद्यर्थवादानां 'पशुकामो वायव्यं श्वेतं छागमालभेत' इति विधिवाक्यशेषत्वम्, "तत् त्वमसि' इत्यादि. वेदान्तवाक्यानां च परमानन्दप्राप्तिरूपमोक्षलक्षणफलद्रह्मार्थप्रतिप्रादकानां स्वतः प्रयोजनवदर्थप्रतिपादकत्वेन फलाकाङ्क्षारहितत्वेनान्यार्थवादतो विलक्षणत्वेन न विध्यङ्गत्वसम्भावनेत्यर्थः। प्रतिक्षेपहेतु