________________
२८८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
कानां " वायुर्वै क्षेपिष्ठा०" [ तैत्तिरीय संहिता, २, १, १ ] इत्येवमादीनां स्वाध्याय विधिग्रहणान्यथानुपपच्या प्रयोजनवदर्थपरत्वे कल्पनीये शब्दभावनेतिकर्तव्यतांश साकाङ्क्षस्य विधेः सम्प्रदानभूतदेवतास्तुतिद्वारेण तदंशपूरकत्वात्, नष्टाऽश्व दग्धरथन्यायेन तदुभयैकवाक्यतेति सत्र निर्णीतत्वात्, वेदान्तवाक्यानां च परमानन्दप्राप्तिरूपप्रयोजनवद्ब्रह्मार्थप्रतिपादकानां निराकाङ्क्षन्तया वैपम्येन न शेषत्वसम्भावनेति वाच्यम् ; कर्मविधीनां वेदान्तानां च विषयविप्रतिषेधेनान्यतरशेषत्वधौव्ये प्रत्यक्षादिवाधितविषयतया वेदान्तानामेव शेषत्वौचित्यात् ।
।
'न च' इत्यस्य ' वाच्यम्' इति परेण योगः, " वायुर्वै क्षेपिष्ठा देवता" इत्यादीनि वायुदेवता प्रशंसा पराणि, न चः वायुदेवताप्रशंसा स्वतः प्रयोजनं सुख-दुःखभावान्यतर रूपत्वाभावादिति, "स्वाध्यायोऽध्येतव्यः " इति विधिश्वाविशेषेण सम्पूर्णवेदरूपस्वाध्यायाध्ययनस्य कर्तव्यत्वमनुशास्ति, तथा च स्वतः प्रयोजनवदर्थाप्रतिपादकानां तेषां यदि प्रयोजनवदर्थपरत्वं न भवेन्न भवेदेव " स्वाध्यायोऽध्येतव्यः " इति विधिना ग्रहणम्, अतस्तेषां प्रयोजनवदर्थपरत्वे कल्पनीये सति " वायव्यं श्वेतं छागमालभेत पशुकामः " इति श्रुत्या बोधितस्य वायुदेवताकश्वेत च्छागालम्भनलक्षणयागेन पशुं भावयेदित्यस्योक्तयागप्रयत्नलक्षणार्थी भावनायाः कर्मकरण- कर्तव्यताकाङ्गात्रयं 'किं भादयेत् ? केन भावयेत् ? कथं भावयेद् ?' इत्येवंरूपं यत् समस्ति, तत्र किं भावयेत् ? इत्याकाङ्क्षा 'पशुं भावयेत्' इत्यनेन शाम्यति, केन भावयेत् ? इत्याकाङ्क्षा 'उक्तयागेन भावयेत्' इत्यनेन शाम्यति, कथं भावयेत् ? इत्येवमितिकर्तव्यताकाङ्क्षा 'याभिः क्रियाभिरुकयागस्वरूपनिष्पत्तिस्ताभिरुपकृत्य भावयेद' इत्यनेन शाम्यति; शाब्दी भावना तु प्रेरणारूपा लौकिकविधिवाक्यस्थले प्रयोज्यपुरुष