________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[२८७ योऽनेनानिष्ट्वाऽन्येन यजते स गर्तमभ्यपतेत्" एष पशुमेधादीनां प्रथमकरणनिन्दार्थवादः। “द्वादश मासासंवत्सरः" [सहवा० उ०१२] अग्निरुष्णः, “अग्निहिमस्य भेषजम्" [तैत्तिरीयसंहिता, ७, ४, १८] इत्यादीनि वाक्यान्यनुवादप्रधानानि, लोकप्रसिद्धस्यैवार्थस्य तेष्वनुवादादिति, तस्मादद्वैतपराणि वेदवचनानि स्तुत्यर्थवादप्रधानानि द्रष्टव्यानीति महाभाष्यवृत्ती व्यवस्थितम्। . अत एव विधिशेषत्वाद् वेदान्तानां स्वाथै न प्रामाण्यमिति मीमांसका अपि सङ्गिरन्ते । न च विधिशेषत्वमेषामसिद्धम् ? अर्थवादाधिकरणन्यायेन तत्सिद्धः। न च स्वतः प्रयोजनवदाप्रतिपादयोऽग्निष्टोमाख्यो यज्ञ एष, वः युष्माकम् , यज्ञेषु मध्ये प्रथमो यज्ञः, यो याजकः पुरुषः, अनेनाग्निष्टोमेन, अनिष्ट्वा अग्निष्टोममकृत्वेति यावत्, अन्येन अग्निष्टोमातिरिक्तन यजते, स याजकः, गर्त नरकम् , अभ्यपतेत बजेदित्यर्थः। एष “एष वः०" इत्यादिरनन्तरोको वेदः। अनुवादपरवेदवाक्यमुदाहरति- द्वादश मासा इति। कथमनुवादप्रधानत्वमित्यपेक्षायामाह- लोकप्रसिद्धस्यैवेति। तेषु “द्वादशमासा" इत्यादिवाक्येषु। यदर्थमयं वेदवाक्यविभाग उक्तस्तदुपसंहरणेन दर्शयति- तस्मादिति। तमिममर्थ प्रमाणीकर्तुमाह- महाभाष्यवृत्ताविति । अत एव अद्वैतपरवेदवाक्यानां स्तुत्यर्थवादप्रधानत्वादेव। विधिशेषत्वात् 'फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवति' इति न्यायेन फलवदुपासनादिविध्यङ्गत्वात्। ननु विधिशेषत्वमेव वेदान्तानामसिद्धमित्याशङ्का प्रतिक्षिपतिन चेति । एषां वेदान्तानाम् । निषेधे हेतुमाह- अर्थवादेति- अर्थवादस्वरूपावबोधकं प्रकरणमर्थवादाधिकरणं तत्रोपदर्शिता युक्तिरर्थवादाधिकरणन्यायः, तेनेत्यर्थः। तसिद्धेः वेदान्तानां विधिशेषत्वसिद्धः।