SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २८६ ] [ तत्त्वबोधिनीविवृतिविभूषितम् तापिन्युपनिषद् , ४, १७] परं चापरं च" इत्यादिद्वैतप्रतिपादकश्रुतिसहस्रविरोधप्रसङ्गात् । वेदवाक्यानि हि कानिचिद् विधिपराणि, कानिचिदर्थवादपराणि,कानिचित् त्वनुवादपराणि । तत्र "अत्राग्निहोत्रं जुहुयात् स्वर्गकामः" [मैत्रायण्युपनिषद् , ६, ३६ ] इत्यादीनि विधि पराणि, अर्थवादस्तु स्तुति-निन्दाभेदाद् द्विधा, तत्र “एकया पूर्णा हुत्या सर्वान् कामानवाप्नोति" इत्यादिः स्तुत्यर्थवादः, विधित्वे शेषाग्निहोत्राद्यनुष्ठानवैयर्थ्यांपत्तेः। “एष वः प्रथमो यज्ञो योऽनिष्टोमः, युक्तमिति भावः। उक्तवाक्यानां स्तुतिपरत्वोपपादनाय वेदवाक्या नामनेकप्रकारत्वमुपदर्शयति- वेदवाक्यानि हीति । हि यतः। तत्र विध्यर्थवादाऽनुवादपरेषु मध्ये। विधिपरवाक्यानि दर्शयति- अत्राग्निहोत्रमिति- “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्येव विधिवाक्यम्, अथवाऽन्यत्रापि विधिपराणि वाक्यानि भवन्तीति वेदे विधिवाक्यो. पदर्शनं क्रियत इत्यवगतये विधिवाक्यबहिर्भूतमेव 'अत्र' इति, वेदे इत्यर्थः, प्रमाणान्तराऽप्रतिपादितोऽर्थों विधिः, तत्पराणि तदर्थकानि, तदुक्तम्• “विधिरत्यन्तमप्राप्तौ, नियमः पाक्षिके सति । " तत्र चान्यत्र च प्राप्तो, परिसंख्येति गीयते" ॥१॥ - एतेन अपूर्वविधिनियमविधिः परिसङ्ख्याविधिरित्येवं विधिस्त्रिधेति, एवमुत्पत्तिविध्यधिकारविध्यादिभेदा विधेर्मीमांसातोऽवसेयाः। अर्थवादवाक्यं विभज्योपदर्शयति- अर्थवादस्त्विति । तत्र स्तुतिनिन्दाभेदेन द्विविधयोरर्थवादयोर्मध्ये। “एकया०" इत्यादेविधिपरत्वमेवाङ्गीक्रियतां किमिति स्तुत्यर्थवादत्वमुररीक्रियते ? इत्यपेक्षा. यामाह-विधित्व इति-एकपूर्णाहुतिरूपक्रियात एव सर्वकामाप्तौ अग्नि होत्राद्यनुष्ठानं विफलमेव प्रसज्येत, तत्फलरूपस्याप्येकाहुतिक्रियात पव निष्पत्तरित्यर्थः। निन्दार्थवादमुदाहरति-:" एष 4:०' इति
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy