________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ २८५ रूपत्वंपदार्थस्य भेदाऽभेदतात्पर्येण समाधेयं सम्यग्दृष्टिभिः, इत्थमेवजीवात्मपरमात्मसमापत्तिसम्भवात्।
"पुरुष एवेदं सर्वम् " [नृसिंहपूर्वतापिन्युनिषद्, ५, १] इत्यादीनि च वेदान्तवाक्यानि पुरुषस्तुतिपराणि, जात्यादिमदत्यागहेतोरद्वैतभावनाफलानि द्रष्टव्यानि, अन्यथा "द्वे ब्रह्मणी वेदितव्ये [त्रिपुरा
तस्मादिति । इत्थमेव केवलज्ञानादिपरिणतिविशिष्टपरमात्मरूपतत्पदार्थसम्यग्दर्शनादिपरिणतिविशिष्टत्वंपदार्थयोर्भेदा-ऽभेदसंसर्गेण वैशिष्ट्याऽवगमत पव। जीवात्मेति- जीवात्मनः परमात्मनि भिन्नाभिन्नतयाऽवस्थानलक्षणजीवात्म परमात्मसमापत्तिसम्भवादित्यर्थः, यद्यपि जीवात्मैव केवलज्ञानावाप्तितः परमात्मा भवति, न तु जीवात्मतः परमात्माऽन्यमत इव सिद्धान्ते स्वरूपत एव भिन्नः, तथाप्युक्तसमापत्तित उत्तरकाले तद्रूपता, पूर्व तु तदात्मना भावनया तथावस्थानमेवेति बोध्यम् ॥
ननु यदि न परमार्थतो ब्रह्माऽद्वैतं 'तत् त्वमसि' इत्यादि. वाक्याभिप्रेतं तईि “पुरुष एवेदं सर्वम्" इत्यादीनां सर्वस्य वस्तुनः पुरुषाऽभेदप्रतिपादकानां वाक्यानां का गतिरित्यत आह"पुरुष एवेदं सर्वम्" इत्यादी नीति। पुरुषस्तुत्या किं प्रयोजनं सेत्स्यतीत्यपेक्षायामाह- जात्यादीति- अद्वैतभावनया जात्यादिमदत्यागो भवतीत्येतदर्थ पुरुषः सर्वात्मत्वेन रूपेण स्तूयत इत्यर्थः। यद्युक्तवाक्यानां न पुरुषस्तुतिपरत्वं किन्तु पुरुषाद्वैतरूपमुख्यार्थत्वमेव, तर्हि पुरुषद्वैतप्रतिपादकश्रुतिसहस्रविरोधः प्रसज्यत इत्याह- अन्यथेति"पुरुष एवेदं सर्वम्" इत्यादिवाक्यानां पुरुषस्तुतिपरत्वाभावे इत्यर्थः, तथा च द्वैतप्रतिपादकश्रुतिसहस्त्रविरोधापत्तिभिया कतिप्रयाऽद्वैतप्रतिपादकवाक्यानां मुख्यार्थत्यागेन पुरुषस्तुतिपरत्वमेव