________________
२८४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
व्यक्ताविवाऽखण्डब्रह्मणि तात्पर्यसम्बन्धोऽपि पदानां सङ्गच्छते, तथानधिगतेऽर्थे तात्पर्यानुपपत्तेः, तात्पर्यात्तथाधिगमे चान्योऽन्याश्रयः, प्रत्यक्षादखण्डानुभवस्त्वनुभवकलहग्रस्त इति न किञ्चिदेतत्, तस्मात् ' तत् त्वमसि' इतिवाक्यं केवलज्ञानादिपरिणतिविशिष्टपर मात्मरूपतत्पदार्थेन सह सम्यग्दर्शनादिपरिणतिविशिष्टान्तरात्म
त्वाद् वैयर्थ्यकल्पमेवेति नैकस्य पदस्य लक्षणा, वाक्यस्य तु पदशक्त्यैवोपस्थितयोः पदार्थयोराकाङ्क्षाबलादन्वय बोधोपपत्तेः शक्तिः नभ्युपगम्यत इति शक्याऽप्रसिद्धया वाक्यस्य शक्यसम्बन्धरूपा लक्षणा न सम्भवतीति बोध्यसम्बन्धरूपैव लक्षणेति द्वितीयपक्षे वोध्यस्यानिर्वचनीयार्थस्य संसर्गोऽनिर्वचनीय इति तस्य शुद्धब्रह्मणि युक्त्यसद्दत्वादित्यर्थः । देवदत्तव्यक्तरनिर्वचनीयत्वे पदानामनिर्वचनीयानां तात्पर्यलक्षणसम्बन्धोऽप्यनिर्वचनीय इति तद्बलात् 'सोऽयं देवदत्तः' इति वाक्यादखण्डदेवदत्तव्यक्तिबोधस्य सम्भवेऽपि अखण्डब्रह्मणि पदानां तात्पर्य सम्बन्धोऽनिर्वचनीयो न सम्भवतीति न तद्रलादखण्डब्रह्मबोधः सम्भवतीत्याह- न चेति - अस्य 'सङ्गच्छते ' इत्यनेनान्वयः । ' तत् त्वमसि' इति वाक्यस्याऽखण्डब्रह्मणि तात्पर्यम्, 'तत् त्वमसि' इति वाक्यमखण्डब्रह्मबोधेच्छयोच्चरितमित्याकारकं तात्पर्यज्ञानमप्यनधिगतब्रह्मणि न सम्भवति, तात्पर्यतश्च ब्रह्माधिगमः, अधिगते च ब्रह्मणि तात्पर्यमित्युपगमश्चान्योऽन्याश्रयादेवोपगन्तुमशक्य इत्याह- तथेति । निर्विकल्पक प्रत्यक्षस्वरूपमेव ब्रह्मज्ञानम्, तद्विषये च ब्रह्मणि पदानां तात्पर्यतो ब्रह्मज्ञानमित्युपगमस्तु यदि वादिप्रतिवादिनां सर्वेषां ब्रह्मनिर्विकल्पक प्रत्यक्षमनुभवसिद्धं भवेत् तदोपपद्येताऽपि तदेव तु विवादग्रस्तम्, तत्राऽविप्रतिपत्तौ च तत एव सिद्धं ब्रह्मेति किं तदर्थं महावाक्योपन्यासेनेत्याह- प्रत्यक्षादिति । स्वमते 'तत् त्वमसि' इति वाक्यार्थसङ्गमनप्रकारमुपदर्शयति
"
·