________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २८३. सखण्डाकारप्रतीतिविषयत्वं सविकल्पत्वम् , अखण्डकारप्रतीतिविषयत्वं च निर्विकल्पत्वम् , ततः प्रमाणमार्गेण सखण्डाखण्डोभयरूपत्वमेव वस्तुनो व्यवस्थितम् , इत्थं चाखण्डैकरूपं ब्रह्म प्रतिपादयन् वेदो निश्चयनयमेवालम्बत इति विचारणीयम्। किञ्च, शुद्धब्रह्मणिः शक्यसम्बन्धरूपा बोध्यसम्बन्धरूपा वा लक्षणापि न सङ्गच्छते, ताविकेऽर्थेऽनिर्वचनीयसंसर्गस्य युक्त्यसहत्वात् , न च देवदत्त
कल्पत्व-निर्विकल्पत्वे के? इत्यपेक्षायां क्रमेण तदुभयं निर्वक्तिसखण्डेति-पुरुषस्येव सर्वस्यापि वस्तुनः सखण्डा-ऽखण्डोभयाकारप्रतीतिविषयत्वात् सविकल्पत्व-निर्विकल्पत्वे बोध्ये। उपसंहरति -तत इति-द्रव्यनयादेशादखण्डत्वं पर्यायनयादेशात् सखण्डत्वमित्यत इत्यर्थः। प्रमाणमार्गेण द्रव्य-पर्यायोभयनयावलम्बिप्रमाणप्रभवविचारेण । यदा च नयद्वयावलम्बनेन सर्वस्य वस्तुनः सखण्डा-खण्डोभयस्वरूपत्वव्यवस्थितौ ब्रह्मणोऽपि सखण्डा-ऽखण्डोभयरूपत्वमेव युक्तम् , एवमप्यखण्डैकरूपत्वं ब्रह्मणः प्रतिपादयन् वेदः केवलनिश्चयनयावलम्व्येवे. त्याह- इत्थं चेति-वस्तुमात्रस्योक्तदिशोभयरूपत्वव्यवस्थितौ चेत्यर्थः। शुद्धब्रह्मणि लक्षणायाः सम्भवे सति तया महावाक्याच्छुद्धब्रह्मविषयकनिर्विकल्पकज्ञानं सम्भवेदपि, सैव तु तत्र न सम्भवतीत्याहकिश्चेति । लक्षणाऽसम्भवे हेतुमुपदर्शयति- तात्त्विकेऽर्थ इति-शुद्धे ब्रह्मणीत्यर्थः, वाक्यघटकैकपदस्य लक्षणा पदान्तरं तात्पर्यग्राहकमिति स्वीकृत्य वाक्येऽपि शक्तिरिति मतमवलम्ब्य वा शक्यसम्बन्धरूपा लक्षणा भवेत् तत्र शक्यस्य परोक्षत्वादिविशिष्ट-- चैतन्यस्य प्रत्यक्षत्वादिविशिष्टचैतन्यस्य वा शुद्धब्रह्मभिन्नतत्वादनिर्वचनीयस्य सम्बन्धोऽप्यनिर्वचनीय इति तस्य शुद्धे ब्रह्मणि युक्त्यसहत्वात् सदसतोः संसर्गासम्भवाद्, असतः संसर्गस्य सत्यसम्भवाच्च, एवं तात्पर्यग्राहकत्वमगतिकगति