________________
२८२ ]
[ तत्वबोधिनीविवृतिविभूषितम् कुटुम्बिनीति त्वदिच्छामात्र प्रामाणिकैरनुरोत्स्यते, उभयप्रतीत्यनुरोधे चोभयात्मकमेव वस्तु जिनेश्वरशिष्यीभूय विभाव्यताम् । तदिदमभिप्रेत्योक्तं भगवता सम्मतिकता
" सवियप्पणिबियप्पं, इय पुरिसं जो भणेज अवियप्पं ।। सवियप्पमेव वा णि-च्छयणएण ण स णिच्छिओ समए ॥"
[का०१, गा० ३५] अयं पटः' इत्यादिप्रतीतौ परमाणुपुञ्जविशेष एव विषयः, एकस्य परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वम् , यथैकस्य केशस्य दूरस्थितस्याऽप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वम् , अवयवव्यतिरिक्तोऽवयवी नास्तीत्युक्त्या कथमिदं लभ्यत इति चेत् ? शृणु-यथा कपाललक्षणावयवव्यतिरिक्तो घटो नास्ति, तथा कपालिकाव्यतिरिक्तः कपालोऽपि नास्ति, कपालिकाऽपि तदवयवत्वेन सम्मतार्थव्यतिरिका न समस्तीत्येवंदिशा सर्वेषामप्यवयविनां परमाणुपुञ्जस्वरूप एव पर्यवसानम् , यदा चावयवयतिरिक्तो नास्त्येवावयवी तदा तद्वाचकतयाऽभिमतस्य पदस्य वाच्यार्थासम्भवाल्लक्षणाऽवश्यकीत्याह- इत्यखण्डवाचकपदस्येति- घट-पटाद्यखण्डावयविस्वरूपवाचकपदस्येत्यर्थः। सखण्डांश एव अवयवसमूह एव अनुभूयमानत्वाऽविशेषेऽप्यखण्डप्रतिः भासस्याभ्युपगमः सखण्डप्रतिभासस्य चापलापः परेण क्रियते चेत् तत्राह- नहीति- अस्य 'अरोत्स्यते' इत्यनेनान्वयः। एका अखण्ड प्रतिभासवती। अन्या सखण्डप्रतिभासवती। उभयप्रतीत्यनुरोधे सखण्डाऽखण्डोभयप्रतीत्यनुरोधे । उभयात्ममेव द्रव्य-पर्यायोभयात्मकमेव। . सखण्डाखण्डोभयस्वरूपमेव वस्त्वित्यत्र सम्मतिकृत्सम्मतिमुपदर्शयति- तदिदमाभिप्रत्योक्तमिति । " सवियप्प० " इति- सविकल्प-निर्विकल्पकमिति पुरुषं यो भणेद् अविकल्पम् । सविकल्पकमेव वा निश्चयनयेन न स निश्चितः समये ॥' इति संस्कृतम् । पुरुषे सवि.