________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २८१ लक्षणास्वीकारापत्तेः । प्रतीतिबलात् तत्राप्यखण्डांशे लक्षणा स्वीक्रियत एवेति चेत् ? तर्हि द्रव्यनयदृष्ट्याऽखण्डप्रतिभासवत् पर्यायनयदृष्ट्या सखण्डप्रतिभासोऽपि सार्वजनीनः, नावयवव्यतिरिक्तोऽवयवी कश्चिदनुभूयत इत्यखण्डवाचकपदस्य सखण्डांश एव किं न लक्षणा स्वीक्रियते ?, नका प्रतीतिः स्वगृहकुटुम्बिनीति, अन्या च परगृहभवति, तत्रापि नानारूपाणां विरोधादेकत्र न सम्भव इत्युक्तवाक्यस्याखण्डपटव्यक्तौ लक्षणास्वीकारः स्यात, एवं 'नीलपीते इमे ' इत्यादिस्वरूपं चित्रज्ञानं स्वसंवेदनप्रत्यक्षसिद्धमनुभूयते, ततस्तथा वाक्यप्रयोगोऽपि भवति, तत्राऽप्येकस्य ज्ञानस्य नानाकारत्वं विरोधान्न संभवतीत्यखण्डज्ञानव्यक्तायुक्तवाक्यस्याखण्डज्ञानव्यक्तौ लक्षणास्वीकारः स्यादिति तद्भयाद् यथा न नानारूपाणां विरोधो नवा नानाकाराणां तथैव 'सोऽयं देवदत्तः' इतिप्रत्यभिज्ञाप्रमाणतः सिद्धे तत्ताविशिष्टेदन्ताविशिष्टयोर्भेदाभेदे न विरोध इति तत्प्रभवे तथाविधवाक्येऽपि तथान्वितार्थताकत्वस्य सम्भवेन न लक्षणेत्यर्थः । परः शङ्कते - प्रतीतिबलादिति - अखण्डार्थप्रतीतिबलादित्यर्थः । तत्रापि चित्ररूपप्रतिपादकवाक्ये चित्राकारज्ञानप्रतिपादकेऽपि च । विशिष्टार्थप्रतिपादकतयाऽनुभूयमानत्वात् सखण्डवाक्यस्याप्यख ण्डार्थलक्षणा द्रव्यनयदृष्ट्या यथाऽखण्डप्रतिभासमवलम्ब्योररीक्रियते तथाऽखण्डार्थप्रतिपादकतयाऽनुभूयमानत्वाद खण्डवाचकपदस्यापि सखण्डप्रतिभासं सार्वजनीनमवलम्ब्य सखण्डांशे लक्षणां स्वीक्रियताम्, वस्तुनः सखण्डाखण्डोभयरूपत्वेनाऽखण्डांशस्येव सखण्डांशस्यापि सम्भवादिति समाधत्ते तहींति । पर्यायनयदृष्ट्या सखण्डप्रतिभासोऽपि सार्वजनीन इति यदुक्तं तदुपपादनायाह- नहीति - अस्य ' अनुभूयते ' इत्यनेनान्वयः । अवयवव्यतिरिक्तोऽवयवी कश्चिन्नानुभूयत इति ऋजुसूत्रशब्द-समभिरूढैवम्भूतचतुष्टयस्वरूपस्य पर्यायनयस्य प्रधानी - भूतसूत्रनयमवलम्बतः सौगतस्य मतम्, तन्मते ' अयं घटः,