________________
मनेकान्तव्यवस्थाप्रकरणम् ]
[ ३०१ भाववद्विशेष्यकत्वावगाहित्वादिति चेत् ? स्यादेव, उत्पाद स्थितिभङ्गाः समुदिता हि द्रव्यलक्षणम्, न तु प्रत्येकम्, एकैकविनिमोकेण द्रव्याऽप्रतीतेरिति प्रत्येकलक्षणग्राहिणौ द्रव्यार्थिक-पर्यायाथिको मूलनयाविह हि मिथ्यादृष्टी, न चास्ति तृतीयः कश्चिन्नय इति, द्वयोमूलनययोरेव यदि परस्परात्यागरूपविशेषेण भज्यमानयोरेव सम्य. क्त्वहेतुता, न तु निरपेक्षग्राहिणोः, तदा कैव प्रत्याशा निरपेक्षग्राहिणां मूलनयार्थप्रज्ञापनामात्र व्यापूतानां विशिष्टांशाधिगममात्रेण भेदभाजामुत्तरनयानां प्रामाण्ये इति । यद् वादीरूपं विशेषाभाववद्विशेष्यकत्वेन स्वस्वरूपं गृह्णाति, पर्यायार्थिकज्ञानं च सामान्याभाववद्विशेष्यकत्वेन स्वस्वरूपमवगाहत इति द्रव्यार्थिकशानस्य विशेषाभावद्विशेष्यकत्वाभाववति स्वस्मिन् विशेषाभाववद्विशेष्यकत्वावगाहित्वेन, पर्यायार्थिकज्ञानस्य च सामान्याभाववद्विशेष्यकत्वाभाववति स्वस्मिन् सामान्याभाववहिशेष्यकत्वावगाहित्वेन च मिथ्यात्वं स्यात् , तदभाववति तज्ज्ञानत्वं मिथ्यात्वमिति सामान्यलक्षणस्यात्र सत्त्वादित्यर्थः। अष्टापत्त्या समाधत्ते- थास्देवेति । न तु प्रत्येकमिति- केवलमुत्पादः केवलं स्थितिः केवलं विनाशश्च न द्रव्यलक्षणमित्यर्थः। प्रत्येकं कथं न लक्षणमित्यपेक्षायामाह- एककविनिर्मोकेणेति-उत्पादादीनां त्रयाणां मध्यादेकैकपरित्यागेनेत्यर्थः । एवं सति यद् व्यवस्थितं तदाह- प्रत्येकेति । ननु द्रव्यार्थिक-पर्यायार्थिकनययोमिथ्यात्वेऽपि ताभ्यां भिन्नस्तृतीयो नयः सम्यङ्नयो भविष्यतीत्यत आह- न चास्तीति । एवं च मूलनययोद्धयोरपि परस्पराऽत्यागरूपविशेषेण भज्यमानयोरेव सम्यक्त्वं न तु परस्परनिरपेक्षग्राहिणोः, एवं सति तदर्थप्रज्ञापनामात्रप्रवणानामुत्तरनयानामपि निरपेक्षग्राहिणां न प्रामाण्यमित्याह - द्वयोर्मूलनययोरेवेति। न विति-निरपेक्षयाहिणो. स्तयोन सम्यक्त्वहेतुतेत्यर्थः। 'कैव प्रत्याशा' इत्यस्य 'प्रामाण्ये' इत्यनेनान्वयः, अन्यत् स्पष्टम् । उक्तार्थे सम्मतिगाथापञ्चकं संवाद