________________
। २३६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् शक्तिमदुपहितत्वाच, अस्यैषा समष्टिः स्थूलप्रपश्चापेक्षया सूक्ष्मस्वात् सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात् स्वप्नः, अत एव स्थूलप्रपञ्चलयस्थानमित्युच्यते । एतद्वयष्टयु. पहितं चैतन्यं तैजस उच्यते, तेजोमयान्तःकरणोपहितत्वात् , अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादिहेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात् स्वप्नः स्थूलशरीरलयस्थानमिति । एतौ सूत्रात्म-तैजसाविदानी मनोवृत्तिभिः सूक्ष्मविषयान - भवतः "प्रविविक्तभुक् तैजसः" इति श्रुतेः। अत्रापि व्यष्टिसमस्तीत्याह-यत इति । अस्य हिरण्यगर्भस्य । एषा एकबुद्धिविषयत्वेन सूक्ष्मशरीरात्मकैकस्वरूपा,इतोऽपि सूक्ष्ममानन्दमयकोशात्मकजगत्कारणाक्षानस्वरूपं शरीरं समस्तीत्यत आह-स्थूलप्रपञ्चापेक्षयेति । सूक्ष्मशरीररूपस्य निरुक्तकोशत्रयस्य सहेतुकं स्वप्नस्वरूपत्वमुपदर्शयतिजामद्वासनामयत्वात् स्वप्न इति । अत एव स्वप्नस्वरूपत्वादेव । समष्टिव्यपदेश्यकोशत्रयरूपसूक्ष्मशरीरोपहितचैतन्यस्य सूत्रात्मकहिरण्यगर्भरूपतामुपदर्थ्य व्यष्टिव्यपदेश्यकोशत्रयरूपसूक्ष्मशरीरोपहितचंतन्यस्य तेजसरूपत्वमावेदयति-एतद्वयष्टयुपहितमिति । तस्य तैजसपदव्यपदेश्यत्वे हेतुमाह-तेजोमयेति । अस्यापि तैजसस्यापि, अपिना यथा हिरण्यगर्भस्य समष्टिः सूक्ष्मशरीरं सूप्तः स्थूलप्रपञ्चलयस्थानं च तथेत्यर्थः स्यावेदनम् । सूत्रात्मनो हिरण्यगर्भस्य तैजसस्य च मनोवृत्तिद्वारा सूक्ष्मविषयानुभावकत्वं दर्शयति-एताविति । मनोवृत्तिद्वारा तैजसस्य सूक्ष्मविषयानुभावकत्वे श्रुतिं प्रमाणयति-प्रविविक्तेति । यथा च विशुद्धसत्त्वप्रधानाऽज्ञानरूपसमष्टि-मलिनसत्त्वप्रधानाऽज्ञानरूपव्यष्टयोस्तदु. पहितचैतन्ययोश्चेश्वर-प्राऽशयोरमेदो वनवृक्षामेद-जलाशयजलामेदवनवृक्षावच्छिन्नाकाशामेद-जलाशयजलगतप्रतिविम्बाकाशाभेददृष्टान्तेनोपपादितस्तथा प्रकृतव्यष्टि-समष्टिरूपयोः । सूक्ष्मशरीरयोस्तदु