________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२२७ समष्टयोस्तदुपहितसूत्रात्म-तैजसयोर्वन-वृक्षवत् तदवच्छिन्नाकाशवच जलाशय-जलवत् तत्प्रतिविम्बिताकाशवचाभेदः । एवं सूक्ष्मशरीररोत्पत्तिः , स्थूलभूतानि च पञ्चीकृतानि, पञ्चीकरणं तु-आकाशादिपञ्चकमेकैकं द्विधा विभज्य समं तेषु दशसु भागेषु प्राथमिकान् पञ्चभागान् प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां चतुर्णा भागानां स्वस्वद्वितीयभागपरित्यागेन भागान्तरेषु संयोजनम् , पहितचैतन्ययोः सूत्रात्म-तेजसयोश्चामेद उक्तदृष्टान्तवलादेवेत्याहअत्रापीति । अपञ्चीकृतभूतेभ्यः सूक्ष्मशरीरोत्पतिं स्थूलभूतोत्पत्ति चोपपादितां निगमयति-एवमिति। पञ्चीकृतानि स्थूलभूतानीति चोक्ते भवति जिज्ञासा कथं भूतानां पञ्चीकरणं ? तन्निवृत्तये पञ्चीकरणप्रकारमा-. वेदयति-पञ्चीकरणं विति । 'द्विधा विभज्य समम् ' इत्यत्र द्विधा समं विभज्येत्यन्वयः। आकाशादीनां तन्मात्राणां पञ्चानां द्विधा विभक्तत्वे दश भागा जायन्त इत्याशयेनाह- तेषु दशसु भागेविति- तेषु दशसु आकाशादीनामेके भागा न विभज्यन्ते, द्वितीयभागानां तु पञ्चानां प्रत्येकं समं चतुर्धा विभजनम् , एवं चाकाशादीनामविभक्तोऽखण्ड एको भागः, यश्च.द्वितीयभागस्तस्य चतुर्धा विभजनात् प्रत्येकं चत्वारो भागाः, ते चाष्टमभागस्वरूपपर्यवसिता एव, तथा चाकाशस्याविभक्तार्द्धभागे वाय्वादीनां चतुर्णामष्टमभागानां सम्मेलने पञ्चीकृतं स्थूलमाकाशमुपजायते, वायोरविभक्ताखण्डार्धभागे आकाशादीनां चतुर्णामष्टमभागानां सम्मेलने पञ्चीकृतः स्थूलवायुरुपजायते, एवं स्थूलतेजो-जल-पृथिवीनां समुत्पत्तिरवसेयेत्याशयः। स्वकीयाष्टमभागस्य स्वीयाखण्डार्धमागे न सम्मिश्रणमित्यावेदनायाह-वस्वद्वितीयभागपरित्यागेनेति।
ननु “तेषामेकैकं त्रिवृत्तं त्रिवृत्तं करवाणि" इति श्रुतौ त्रिवृत्करणमेव श्रूयत इति पञ्चीकरणमप्रमाणकमेवेत्यत आह-त्रित्क