________________
२२८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् त्रिवृत्करणश्रुतेः पञ्चीकरणस्याप्युपलक्षणत्वात् नास्याप्रामाण्यम् , पञ्चानां पञ्चात्मकत्वे तुल्येऽपि स्वार्धभागेतराष्टमभागाभ्यां वैशिष्टथात् तद्वयपदेश इत्याकाशादीनां नियतव्यपदेशव्यवस्था । तदानीमाकाशे शब्दोऽभिव्यज्यते, वायो शब्द-स्पर्शी, अग्नौ शब्दस्पर्श-रूपाणि, अप्सु शब्द-स्पर्श-रूप-रसाः, पृथिव्यां शब्दस्पर्श-रूप-रस-गन्धाः, एतेभ्यः पञ्चीकृतेभ्यः चतुर्दशानां लोकानां तदन्तर्गतानां स्थूलशरीराणां चोत्पतिः । शरीराणि मनुष्यपक्षि-यका-वृक्षादीनांजरायुजा-ऽण्ड ज-स्वेदजोद्भिजाख्यानि । अत्रापि चतुर्विधस्थूलशरीरमेकानेकबुद्धिविषयतया वनवजलाशयवद् वा रणश्रुते िति । अस्य पञ्चीकरणप्रतिपादकग्रन्थस्य । नन्वेवं पञ्चीकरणे आकाशादोनां पञ्चानामपि स्थूलभूतानां पञ्चतन्मात्रभागसमुत्थत्वाविशेषादेकस्याकाश इति व्यपदेशः, तदन्यस्य च कस्यचिद् वायुरिति व्यपदेशः, कस्यचित् तु तेज इति व्यपदेशः, एवं जलव्यपदेशः पृथिवीव्यपदेशश्चेति नियतव्यपदेशव्यवस्था निर्निबन्धना स्यादित्यत आहपञ्चानामिति । 'अष्टभागाभ्याम्' इत्यत्र 'अष्टमभागाभ्याम्' इति पाठो युक्तः। तदानीं पञ्चीकरणतः स्थूलोत्पत्तिर्दशायाम् । आकाशे स्थूलाकाशे, आकाशे वाय्वाद्यष्टमभागानां सन्निविष्टत्वेऽपि आकाशाद् वायुः सम्भूत इति श्रूयते, न तु वाय्वादित आकाशसम्भूतिश्रुतिः, एवं वायोस्तेजः, तेजसो जलम् , जलात् पृथिवीत्येवं श्रूयते, न तु तेजसो वायुसम्भूतिश्रुतिरिति । कारणगुणाः कार्ये सजातीयगुणानारभन्त इति आकाशस्य स्थूलस्य स्थूलभूतवायुकारणत्वात् तद्गुणाच्छब्दाद् वायौ स्थूले शब्दस्य स्पर्शतन्मात्रार्धभागतो जायमानत्वात् स्पर्शगुणस्य चोद्भव इति वायौ शब्द-स्पी, एवमग्नौ शब्द-स्पर्श-रूपाणीत्यादिकं भावनीयम् । पञ्चीकृतेभ्यः पञ्चमहाभूतेभ्यश्चतुर्दशलोकोत्पत्तिस्तदन्तर्गतस्थूलशरीरोत्पत्तिश्चेत्याह-एतेभ्य इति।