________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २२९ समष्टिा, वृक्षवजलवद् वा व्यष्टिरपि भवति । एतत्समष्टयुपहितं चैतन्यं सर्वनराभिमानित्वाद् विविध राजमानत्वाच्च वैश्वानर इति विराडिति चोच्यते । अस्यैषा स्थूलशरीरमन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाजागरश्च व्यपदिश्यते । एतद्व्यष्टयुपहितं चैतन्यं विश्व इत्युच्यते सूक्ष्मशरीरमपरित्यज्य स्थूलशरीरप्रविष्टत्वात् । अस्याप्येषा स्थूलशरीरमन्नविकारत्वादिहेतोरन्नमयकोशो जाग्रदितदन्तर्गतानां चतुर्दशलोकान्तर्गतानाम् । जरायुजादिभेदेन स्थूलशरीरस्य चतुर्विधत्वं दर्शयति- शरीराणीति । स्थूलशरीरस्यापि समष्टि व्यष्टिभेदेन द्वैविध्यं दर्शयति-अत्रापीति- स्थूलशरीरेऽपीत्यर्थः। चतुर्विधेतिअनन्तराभिहितजरायुजादिभेदेन चतुर्विधेत्यर्थः, एकबुद्धिविषयत्वेन समष्टित्वम् , अनेकबुद्धिविषयत्वेन व्यष्टित्वं बोध्यम् । स्थूलशरीर स्वरूपसमष्टयुपहितचैतन्यस्य वैश्वानरपदव्यपेदश्यत्वं विराट्पदव्यपदेश्यत्वं च सहेतुकमुपदिशति- एतत्समष्टयुपहितमिति- स्थूलशरीरात्मकसमष्टयुपहितमित्यर्थः । विश्वनरसम्बन्धी वैश्वानर इति, अभिमानलक्षणश्चात्रसम्बन्धः, तेन 'सर्वनराभिमानित्वाद्' इति वैश्वानरव्यपदेशे हेतुः। 'विराड्' इत्यत्र विरुपसर्गो विविधार्थकः, राजत इति राट्, तेन 'विविधं राजमानत्वाद्' इति विराइव्यपदेशे हेतुः। अस्य वैश्वानरव्यपदेश्यस्य विराडव्यपदेश्यस्य च । एषा समष्टिः। अस्य शरीरस्यानमयकोशपदवाच्यत्वे 'अन्नविकारत्वाद्' इति हेतुः। स्पष्टवैषयिकसुख-दुःखानुभवलक्षण उपभोगः स्थूलशरीरे भवतीति स्थूलभोगायतनमेतच्छरीरम् , तत्त्वाच्च जागरव्यपदेश्यं तदित्याह- स्थूलभोगायतन. त्वाजागरश्चेति । स्थूलशरीरलक्षणव्यष्टयुपहितचैतन्यस्य विश्वपदव्यपदेश्यतेत्याह- एतद्वयष्टयुपहितमिति । तत्र हेतुः- सूक्ष्मेति । विश्वस्यापि व्यष्ट्यात्मकस्थूलशरीरमन्नमयकोशो जाग्रञ्चेत्याह- अस्यापीति-विश्वस्यापीत्यर्थः। एषा व्यष्टिः, अन्नविकारत्वमन्नमयकोशत्वे हेतुः, आदि