________________
२३० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् त्युच्यते । तदेतौ विश्व-वैश्वानरौ दिग्-वाता-ऽक वरुणा-ऽश्विभिः क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन क्रमाच्छब्द-स्पर्श रूप-रसगन्धान् , अग्नीन्द्रोपेन्द्र-यम-प्रजापतिभिः क्रमानियन्त्रितेन वागादीन्द्रियपञ्चकेन क्रमाद् वचना-ऽऽदान-गमन विसर्गा-ऽऽनन्दान् चन्द्राऽच्युत-चतुर्मुख-शङ्करैः क्रमानियन्त्रितेन मनो-बुद्ध्यहङ्कार-चित्ताख्येनाऽऽन्तरिन्द्रियचतुष्केण क्रमात् सङ्कल्प-निश्चया-ऽहङ्कार्य-चित्ताश्च पदप्राचं स्थूलभोगायतनत्वं च जाग्रदूपत्वे हेतुः, अत्र यञ्चैतन्यं समष्ट्यज्ञान-समष्टिसूक्ष्मशरीर-समष्टिस्थूलशरीरोपहितमीश्वर-सूत्रा. त्मवैश्वानरव्यपदेश्यं त्रिसङ्ख्यकं तद्व्यापकत्वादीश्वरकोटिः, यत् पुनर्व्यष्ट्यज्ञान-व्यष्टिसूक्ष्मशरीर व्यष्टिस्थूलशरीरोपहितं चैतन्यं प्राऽज्ञ-विश्वव्यपदेश्यं त्रिसङ्ख्यकं तद् अव्यापकत्वाजीवकोटिरिति। अत्र विश्व-वैश्वानरयोर्जाग्रदशावस्थयोःशब्दादिविषयानुभावकत्व-वचनाद्यनुभावकत्व-स्थूलविषयानुभावकत्वान्युपसंहरन्नुपदर्शयति-तदेतावितिश्रोत्रेन्द्रियं दिग्दैवतम् , दिगाख्यदेवतानियन्त्रितेन श्रोत्रेन्द्रियेण विश्ववैश्वानरौ शब्दमनुभवतः, त्वगिन्द्रियं वायुदैवतम् , तेन वायुनियनितेन त्वगिन्द्रियेण विश्वा-वैश्वानरौ स्पर्शमनुभवतः, चक्षुरिन्द्रियं सूर्यदेवतम् , तेन सूर्यनियन्त्रितेन नयनेन्द्रियेण विश्व-वैश्वानरौ रूपमनुभवतः, रसनेन्द्रियं वरुणदेवतम् , तेन वरुणनियन्त्रितेन रसनेन्द्रियेण विश्व-वैश्वानरौ रसमनुभवतः, घ्राणेन्द्रियमश्विनीकुमारदेवतम् , तेन तन्नियन्त्रितेन घ्राणेन्द्रियेण विश्व-वैश्वानरौ गन्धमनुभवतः, एवं वागिन्द्रियमग्निदेवतम् , तेनाग्निनियन्त्रितेन वागाख्याकर्मेन्द्रियेण वचनं विश्व-वैश्वानरावनुभवतः, पाणीन्द्रियमिन्द्रदैवतम्, तेनेन्द्र नियन्त्रितेन पाणीन्द्रियेणादानं विश्व-वैश्वानरावनुभवतः, पादोख्यकमेंन्द्रियमुपेन्द्रदैवतम् , तेनोपेन्द्र नियन्त्रितेन पादेन्द्रियेण विश्व-वैश्वानरौ गमनमनुभवतः, पाय्विन्द्रियं यमदैवतम् , तेन यमनियन्त्रितेन पाय्वि