________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २३१ स्थूलविषयाननुभवतः , "जागरितस्थानो बहिः प्राज्ञः"
[माण्डूक्योपनिषद् , ३] इत्यादिश्रुतेः। अत्राप्यनयोः स्थूलव्यष्टि-समष्टयोस्तदुपहितयोविश्ववैश्वानरयोश्च वन-वृक्षवत् तदवच्छिन्नाकाशाकाशवञ्च जलाशय-जलवत् तद्गतप्रतिविम्बाऽऽकाशाकाशवच्च पूर्ववदभेदः । एवं पञ्चीकृतेभ्यो भूतेभ्यः स्थूलप्रपश्चोत्पत्तिः।
एषां स्थूल-सूक्ष्मकारणप्रपञ्चानामपि समष्टिरेको महान् प्रपञ्चो भवति, यथा-अवान्तरवनानामपि समष्टिरेकं महद् वनम् , यथा वा-अवान्तरजलाशयानामेको मान् जलाशयः समष्टिः । एतदुन्द्रियेण विश्व-वैश्वानरौ विसर्गमनुभवतः, उपस्थेन्द्रियं प्रजापतिदैव.. तम्, तेन प्रजापतिनियन्त्रितेनोपस्थेन्द्रियेण विश्व-वैश्वानरावानन्दम. नुभवतः, मनोरूपान्तःकरणं चन्द्रदैवतम् , तेन चन्द्रनियन्त्रितेन मनोरूपान्तःकरणेन सङ्कल्पं तावनुभवतः; बुद्धिरूपान्तःकरणमच्युत-, देवतम् , तेनाच्युतनियन्त्रितेन बुद्धिरूपान्तःकरणेन निश्चयं तावनु. भवतः, अहङ्कारेन्द्रियं चतुर्मुखदैवतम् , तेन चतुर्मुखनियन्त्रितेणाहङ्कारेणाहकार्य तावनुभवतः, चित्ताख्यमिन्द्रियं शङ्करदैवतम् , तेन शङ्करनियन्त्रितेन चित्तेन्द्रियेण चेत्यान् तावनुभवत इत्यर्थः। उक्तार्थे श्रुति प्रमाणयति- जागरितेति-प्राशो जागरितस्थानो विश्वरूपो बहिः स्थूलविषयान् अनुभवतीत्यर्थः। यथा पूर्व व्यष्टि-समष्टिरूपोपाध्योस्तदुपहितचैतन्ययोश्चाऽभेदो यथा भूतदृष्टान्तावष्टम्भेनोपपादितस्तथा प्रकृतेऽपि व्यष्टि-समष्टयोस्तदुपहितचैतन्ययोर्विश्व-वैश्वानरयोस्तद्दृष्टान्तेनाभेदो ज्ञेय इत्याह- अत्रापीति- स्थूलशरीरेऽपीत्यर्थः। तदुपहितयोः स्थूलव्यष्टि समष्टिरूपशरीरोपहितयोः, उपसंहरति- एव. मिति । महद् वनमिव महान् प्रपश्चोऽपि समष्टिरूपोऽवसेय इत्याहएषामिति । यथेत्यादिना दृष्टान्तप्ररूपणा स्पष्दैव । एतदुपहितं महाप्रपञ्चा.