________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २२५ एते चाकाशादिगतरजोंऽशेभ्यो मिलितेभ्य उत्पद्यन्ते । इदं प्राणादिपश्चकं कर्मेन्द्रियसहितं प्राणमयकोश उच्यते, अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एषु कोशेषु विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः, मनोमय इच्छाशक्तिमान करणरूपः, प्राणमयः क्रियाशक्तिमान् कार्यरूप इत्येवमेतेषां योग्यत्वेनायं विभागः, एतत् कोशप्रयं मिलितं सूक्ष्मशरीरमुच्यते, अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवजलाशयवद् वा समष्टिः, अनेकबुद्धिविषयतया वृक्षवजलवद् वा व्यष्टिरित्युच्यते, यतः समष्टयुपहितं चैतन्य सूत्रात्मा हिरण्यगर्भः प्राण इति चोच्यते, सर्वत्रानुस्यूतत्वात् ज्ञानक्रिया
___ इति वचनप्रतिपाद्यस्वस्वस्थानतोऽवसेयम् । एते च प्राणादयो वायवः पुनः, अस्य ‘उत्पद्यन्ते' इत्यनेन सम्बन्धः। प्राणमयकोश. स्वरूपमुपदर्शयति- इदमिति।प्राणमयकोशस्याकाशादिरजोंऽशकार्यत्वे हेतुमाह- अस्येति- प्राणमयकोशस्येत्यर्थः। पतेषां विज्ञानमय-मनो. मय-प्राणमयकोशानां विविच्य स्वरूपोपदर्शनतो विभागसाफल्यमावेदयति- एषु कोशेष्विति- अनन्तरोपदिष्टेषु त्रिषु कोशेषु मध्य इत्यर्थः । एतेषां निरुक्तकोशत्रयाणाम् । अयं कर्तृ-करण-कार्यरूपात्मकः। निरुक्तकोशत्रयमेव मिलितं सत् सूक्ष्मशरीरमुच्यते, न तु कोशत्रयादन्यत् सूक्ष्मशरीरमित्याह- एतत् कोशत्रयमिति । यथा च विशद्धसत्त्वप्रधानमज्ञानमानन्दमयकोशः समष्टिः, मलिनसत्त्वप्रधानमज्ञानमानन्दमयकोशो व्यष्टिरित्येवमानन्दमयकोशस्य समष्टिव्यष्टिमेदेन द्वैविध्यम् , तथोक्तकोशत्रयात्मकसूक्ष्मशरीरेऽपि समष्टि व्यष्टिभेदेन द्वैविध्यमित्याह-अत्रापीति-सूक्ष्मशरीरेऽपीत्यर्थः, यथा च समष्टिस्वरूपानन्दमयकोशात्मक जगत्कारणाज्ञानोपहितचैतन्यमीश्वरः, व्यष्टिस्वरूपानन्दमयकोशात्मकाहङ्कारादिकारणाज्ञानोपहितचैतन्यं प्राऽज्ञ इत्येवं समष्टि व्यष्टिभेदप्रयोजनम्, तथाऽत्रापि समष्टि-व्यष्टिभेदप्रयोजन
૧૫