________________
२२४ ]
[ तत्वबोधिनीविवृतिविभूषितम्
बुद्धिर्ज्ञानेन्द्रियैः सहिता सती विज्ञानमयकोशो भवति, अयं कर्तृत्वभोक्तृत्वाभिमानित्वेन लोकद्वयगामी व्यावहारिको जीव इत्युच्यते । मनस्तु कर्मेन्द्रियैः सह मनोमयकोशः । कर्मेन्द्रियाणि वाक्-पाणिपाद - पायूपस्थानि, एतान्याकाशादीनां रजोंऽशेभ्यो व्यस्तेभ्यः पृथक् पृथगुत्पद्यन्ते । वायवः प्राणा-पानोदान-समान- व्यानाः
आनन्दमयकोशः' इत्येवं पञ्च कोशा अभिमताः, तत्र 'स्थूलशरीरमन्नविकारत्वादिहेतोरन्नमयकोशः' इत्यग्रे व्यक्तीभविष्यति, विशुद्धसत्त्वप्रधाना समप्रिव्यपदेश्या माया आनन्दप्रचुरत्वात् कोशवदाच्छादकत्वादानन्दमयकोशः, एवं मलिनसत्त्वप्रधाना व्यष्टिव्यपदेश्या माया 'आनन्दप्रचुरत्वादेव हेतोरानन्दमयकोशः' इत्यनेन आनन्दमयकोशः प्रागभिहितः । इदानीं प्रसङ्गाद विज्ञानमयकोशादित्रिकं क्रमेण दर्शयति- इयं बुद्धिरिति । अयं विज्ञानमयकोशः, लोके यो लोकद्वयम् इहलोक परलोकोभयमनुगच्छति, स कर्तृत्व-भोक्तृत्वाद्यभिमानी जीव इति व्यवहियते, विज्ञानमयकोशश्च तथेति स एव व्यावहारिको जीव इत्यर्थः । मनोमयकोशमुपदर्शयति- मनस्त्विति । सूक्ष्मशरीरावयवतया कर्मेन्द्रियपञ्चकं यदुक्तम्, यश्च कर्मेन्द्रियैः सह' इत्युक्तं तत्स्पष्टप्रतिपत्तये कर्मेन्द्रियाणि नामग्राहं दर्शयति- कर्मेन्द्रियाणीति । आकाशस्य रजोंऽशाद् वागिन्द्रियम्, वायो रजोंऽशात् पाणीन्द्रियम्, तेजसो रजोंऽशात् पादेन्द्रियम् जलस्य रजोंऽशात् पायुः पृथिव्या रज शादुपस्थेन्द्रियमित्येवं पञ्चापि कर्मेन्द्रियाणि जायन्त इत्याहएतानीति वागादीनि कर्मेन्द्रियाणीत्यर्थः, 'उत्पद्यन्ते' इत्यनेनास्य सम्बन्धः । 'वायुपञ्चकं च' इति यदुक्तं तत्स्पष्टप्रतिपत्त्यर्थमाहबायव इति - एतेषां स्वरूपम्
"
66
'हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद्, व्यानः सर्वशरीरगः " ॥