________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २२३ याणि श्रोत्र-त्वक् चक्षुर्जिह्वा-घ्राणानि, एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथगुत्पद्यन्ते। बुद्धिनिश्चयात्मिकान्त:करणवृत्तिः, सङ्कल्प-विकल्पात्मिका सा मनः, एतयोरेव चित्ताऽहङ्कारयोरन्तर्भावः , एते च गगनादिगतसात्त्रिकांशेभ्यो मिलितेभ्य उत्पद्येते, एषां प्रकाशात्मकत्वात् सात्त्विकांशकार्यत्वम् । इयं जायते, तत आकाशगुणस्य शब्दस्य ग्राहकं तत् , वायोः सात्त्विकांशात् त्वगिन्द्रियं जायत इति वायुगुणस्य स्पर्शस्य ग्राहकं तत् , तेजसः सात्त्विकांशाच्चक्षुरिन्द्रियं भवतीति तेजोगुणस्य रूपस्य ग्राहकं तत्, अपां सात्त्विांशाद्रसनं जायत इति तद्गुणस्य रसस्य ग्राहकं तत्, पृथिव्याः सात्त्विकांशाद् घ्राणेन्द्रियमुद्भवतीति पृथिवीगुणस्य गन्धस्य ग्राहकं घ्राणेन्द्रियमित्याह- एतानीति-श्रोत्र-त्वचक्षु-जिह्वा-घ्राणानीत्यर्थः, 'उत्पद्यन्त' इत्यनेन सम्बन्धः। लिङ्गशरीरावयवतया 'बुद्धि-मनसी' इति यदुक्तं तत्र का बुद्धिः? किं च मनः? इत्याकाङ्क्षायामाह- बुद्धिरिति । सा अन्तःकरणवृत्तिः। ननु चिता-हिङ्कारयोरप्यन्तःकरणतया प्रसिद्धिरस्तीति तयोरपि लिङ्गशरीरावयवतयाऽभिधानं कुतो न कृतमित्यत आह- एतयोरेवेतिबुद्धि-मनसोरेवेत्यर्थः, एतेन
"मनो बुद्धिरहङ्कारश्चितं, करणमान्तरम् ।
संशयो निश्चयो गर्वः, संकल्पो विषया अमी"॥ इत्यनेन विरोधो निरस्तो वेदितव्यः। चित्तस्य बुद्धावन्तवि तत्कार्य बुद्धिकार्यमेव, अहङ्कारस्य मनस्यन्तर्भाव तत्कार्यमपि मनःकार्यमेवेति बुद्धिमनसोर्गगनादिगतसात्त्विकांशेभ्यो मिलितेभ्य उत्पत्ति रित्याह- एते चेति-बुद्धि-मनसीचेत्यर्थः, 'उत्पद्यते' इत्यनेन सम्बन्धः। शानेन्द्रियपश्चकस्य बुद्धि-मनसोश्चाकाशादिसात्त्विकांशकार्यत्वे हेतुमावेदयति- एषामिति- ज्ञानेन्द्रियादीनामित्यर्थः । वेदान्तमते 'अन्नमयकोशः, प्राणमयकोशः, मनोमयकोशः, विज्ञानमयकोशः,