________________
२२२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् देतत्कारणस्य तमःप्राधान्यम् , सत्त्व-रजस्तमांस्यपि कारणगुणक्रमेण तेष्वाकाशादिषूत्पद्यन्ते, एतान्येव पञ्च भूतानि तन्मात्राण्यपश्चीकृतानि चोच्यन्ते, एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते, सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि, अवयवा ज्ञानेन्द्रियपश्चकं बुद्धि-मनसी कर्मेन्द्रियपश्चकं वायुपञ्चकं चेति । ज्ञानेन्द्रिपहितादित्यर्थः । नन्वज्ञानस्य सत्त्व-रजस्तमोगुणत्रययुक्तत्वे कथं प्रधानीभूततमोगुणयुक्ताज्ञानोपहितात्मन एवाकाशाशुपादानत्वमित्यत आह- एतेविति- आकाशादिष्वित्यर्थः। एतत्कारणम्य आकाशादिकारणाऽज्ञानस्य, कार्य हि कारणानुरूपमेव भवति, यदि कारणमशानं तम प्रधानं न भवेत् तर्हि तत्कार्यमाकाशादिकमपि तमःप्रधानं न स्यात् , तम प्राधान्यं च तेषु जाज्यलक्षणतमःकार्याधिक्यदर्शनतोऽवसितमतस्तत्कारणेऽज्ञाने तम प्राधान्यमित्यर्थः। सत्त्वकार्यसुखस्य रजाकार्यदुःखस्य तमःकार्यमोहस्योत्पादकत्वेनाकाशादिषु सत्त्व-रजस्तमांसि सन्तीति निर्विवादम्, कार्येषु गुणाः कारणगत. गुणेभ्य एवोत्पद्यन्त इति कारणीभूतेऽज्ञानेऽपि सत्त्व-रज-स्तमांसि सन्तीत्याह- सत्त्व-रजस्तमांस्यपीति। एतान्येव आकाशादीन्येव। तन्मात्राणीति-शब्दतन्मात्रमाकाशम् , स्पर्शतन्मात्रो वायुः, रूपतन्मात्रं तेजा, रसतन्मात्रं जलम् , गन्धतन्मात्रा पृथिवीत्यर्थः। अपञ्चीकृतानीति- 'पञ्चीकरणं त्वाकाशादिपञ्चकमेकैकं द्विधा विभज्य०' इत्यादिना पञ्चीकृतानि स्थूलभूतान्यग्रे दर्शयिष्यन्ति, न पश्चीकृतानि अपञ्चीकृतानीत्यर्थः। एतेभ्यः अपञ्चीकृततन्मात्रव्यपदेश्याकाशादिपञ्चभूतेभ्यः । पुरुषभेदेन सूक्ष्मशरीरं भिन्नमित्यावेदयितुं सूक्ष्मशरीराणीति बहुवचनम् । कानि सूक्ष्मशरीराणीत्यपेक्षायामाह - सूक्ष्म शरीराणीति । 'सप्तदशावयवानि' इति यदुक्तं तदेवावयवानामुपदर्शनेन निर्धारयति- अवयवा इति । 'ज्ञानेन्द्रियपञ्चकम्' इति यदुक्तं तदेव विशिष्य परिगणय्य दर्शयति- ज्ञानेन्द्रियाणीति। आकाशस्य सात्विकांशतः श्रोत्रेन्द्रियमुफ