________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २२१ शक्तिद्वयवदज्ञानोपहितचैतन्यं स्वप्रधानतया निमित्तं स्वशरीरप्रधानतया चोपादानम् । ततस्तम प्रधानशक्तिमदज्ञानोपहितचैतन्यादाकाशम् , आकाशाद् वायुः, वायोरग्निा, अनेरापा, अद्भ्यः पृथिवी चोत्पद्यते, "एतस्मादात्मन आकाशः सम्भूता" [तैत्तिरीयोपनिषद्, २, १, १] इत्यादिश्रुतेः । एतेषु जाज्याधिक्यदर्शना
“ततः सत्यवतः कायात् , पाशबद्धं वशं गतम् । .. अश्गुष्ठमात्रं पुरुषं, निश्चकर्ष यमो बलात्" ॥१॥
इत्यादिवचनात् परलोकयात्रानिर्वहणसमर्थमवगन्तव्यम् , 'अङ्गुष्ठमात्रं पुरुषम्' इत्यनेन सूक्ष्मशरीरमेव तत्रादितम् , क्षानेन्द्रियपश्चक-कर्मेन्द्रियपञ्चक-बुद्धि मनः-प्राणादिवायुपञ्चकैः सङ्घटितं तत् सप्तदशावयवकं गीयते । आवरण विक्षेपशक्तिद्वयवदज्ञानोपहितस्यात्मनो जगतो निमित्तत्वमुपादानत्वं च लूतादृष्टान्तेन समर्थयति- शक्तिद्वयेति- अज्ञानोपहितचैतन्यरूपे यदा चैतन्यं प्रधानतयाऽऽद्रियते तदा चैतन्यस्य सतस्तस्य जडात्मकजगदुपादानत्वं न सम्भवतीति जगन्निमित्तत्वं तस्येत्याह- स्वप्रधानतयेति । यदा तु तत्रोपाधिभूतस्याज्ञानस्यैव प्राधान्यमाद्रियते तदा जडात्मकमज्ञानं जडात्मकस्य जगत उपादानं सम्भवत्येवेति जगदुपादानत्वमप्यक्षानोपहितात्मन इत्याह- स्वोपाधिप्रधानतयेति । यथेत्यादिना लूतादृष्टान्तं स्पष्टतया भावितमेवेति । शक्तिद्वयवदज्ञानोपहितचैतन्यस्य जगदुपादानत्वनिमित्तत्वे व्यवस्थिते आकाशादिप्रपञ्चे यस्य यथाभूताऽक्षानोपहितचैतन्यत उत्पत्तिस्तत्प्रकारकमेदं विशिष्योपदर्शयतितत इति-निरुक्तचैतन्यस्य जगत्कारणत्वत इत्यर्थः। 'आकाशम्' इत्यस्य 'उत्पद्यते' इत्यनेनान्वयः, पवं 'व.युः' इत्यादेरप्युत्पद्यत इत्यनेन सम्बन्धः, आकाशं प्रति साक्षादुक्तोपहितचैतन्यस्य कारणत्वं बाय्वादिकं प्रति तु परम्परयेति विशेषः । आकाशादिक्रमेण जगदुत्पत्तौ श्रुतिं प्रमाणयति- एतस्मादिति- तमप्रधानशक्तिमदक्षानो