________________
२२० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् -स्मनोऽवलोकयितबुद्धिपिधायकतयाऽऽच्छादने सामर्थ्यम्, तदुक्तम्'घनदृष्टिः' इति, अनयाऽऽवृतस्यात्मनः कर्तृत्व-भोक्तृत्व सुखित्वादि सम्भाव्येत स्वाज्ञानेनावृताया रजोरिव सर्पत्वम् । विक्षेपशक्तिस्तु रज्ज्वज्ञानं यथा स्वावृतरजी सादिकमुत्पादयति एवमज्ञानमपि स्वावृतात्मनि गगनादिप्रपञ्चमुत्पादयति येन तादृशसामर्थ्यम् । तदुक्तम्- “विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ।। [सरस्वतीरहस्योपनिषद्. १८] इति ।
"बहु निगद्य किमत्र वदाम्यहं, शृणुत सङ्ग्रहमद्वयशासने। सकलवाङ्मनसातिगताचितिः, सकलवाङ्मनसव्यवहारभाक" ॥२॥
[संक्षेपशारीरके १, ३१९, ३३१] इति । तदाच्छादनकथम्भावाकाङ्कानिवृत्त्यर्थमुक्तम्- अवलोकयितृवुद्धिपिधायकृतयेति-अवलोकयितुर्जीवस्य या ब्रह्मविषया बुद्धिस्तत्प्रतिबन्धकतयेत्यर्थः, ब्रह्मविषयकबुद्धिप्रतिवन्धनमेव ब्रह्मण आच्छादनं बोध्यम् । न्यूनपरिमाणस्य मेघस्य सवितृमण्डलाचारकत्वदृष्टान्तेनाज्ञानस्य ब्रह्मावारकत्वसमर्थने सम्मतिमुपदर्शयति- तदुक्तं घनदृधिरतीति । सौसादृश्यदोषतो रज्जुत्वेन रजोरज्ञानतः सर्पत्वं कल्पितं यथा तथैवाविद्ययाऽऽवृतस्यात्मनः कर्तृत्वादिकं कल्पितं सम्भावनापथमुपगच्छतीत्याह- अनयेति- आवरणशक्तियुक्तयाऽविद्ययेत्यर्थः । स्वाऽज्ञानेन रज्जुत्वेन रज्जुस्वरूपाज्ञानेन। विक्षेपशक्तिकल्पनप्रयोजनं दर्शयतिविक्षेपशक्तिस्त्विति । अज्ञानस्य वियदादिप्रपञ्चोत्पादनसामर्थ्य विक्षेपशक्तिस्तां दृष्टान्तावष्टम्मेन साधयति- रज्ज्वज्ञानमित्यादिना। स्वावृतरजौ रज्ज्वज्ञानावृतरजौ । स्वावृतात्मनि अज्ञानावृतात्मनि। येन सामर्थ्यविशेषेण । तादृशसामर्थ्यम् अज्ञानस्य स्वावृतात्मनि गगनादिप्रपश्चो त्पादनसामर्थ्यम् । विक्षेपशक्तिबलादज्ञानस्य जगदुत्पादकत्वे प्राचां सम्मतिमाह- तदुक्तमिति । 'लिङ्गादि०' इत्यत्र लिङ्गपदेन सूक्ष्म शरारम् , तच्च