________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २१९
अस्याज्ञानस्यावरण-विक्षेपनामकमस्ति शक्तिद्वयम्, तत्रावरण -- मेघस्यानेकयोजनायतादित्यमण्डलस्यालोकयितुपरिच्छिन्नस्याप्यज्ञानस्यापरिच्छिन्नासंसार्या -
उक्तमहावाक्यस्य लक्ष्यत्वं तस्येत्यविविक्तं सद् वाच्यम्, विविक्तं सल्लक्ष्यमिति चोच्यत इत्यर्थः ।
मायाऽविद्याद्यभिधानस्याऽज्ञानस्यैकस्यापि सत आवरणकार्य - कारित्वं सर्जन कार्यकारित्वं च शक्तिभेदमन्तरेण न सम्भवतीति तस्यावरणशक्तिर्विक्षेपशक्तिश्चेत्येवं शक्तिद्वयं समस्तीत्याह- अस्याज्ञानस्यति । क्रमेण शक्तिद्वयकार्ये प्रतिपादयितव्ये प्रथमत आवरणशक्तिकार्यमुपदर्शयति- तत्रति - निरुक्तशक्त्योर्मध्य इत्यर्थः, आवरणशक्तं राच्छादने सामर्थ्यमित्यन्वयः । अपरिच्छिन्नस्य ब्रह्मण आच्छादने परिच्छिन्न स्याज्ञानस्य कथं सामर्थ्य सम्भावयितुं शक्यमित्य पेक्षायां यथाऽल्पपरिमाणस्यापि मेघस्य स्वापेक्षयाऽत्यधिकपरिमाणस्यादित्यमण्डलस्याऽऽच्छादने सामर्थ्यमवलोक्यते तथेदमपि सम्भवतीत्याहअल्पस्यापीति - आदित्यमण्डलपरिमाणापेक्षया न्यूनतमपरिमाणस्यापीत्यर्थः । आवारकमेघपरिमाणापेक्षयाऽऽत्रियमाणादित्यमण्डलपरिमाणस्यात्युत्कृष्टत्वप्रतिपत्त्यर्थम् ' अनेकयो जानायत इति विशेषणम्, आदित्यमण्डलाच्छादकत्वं मेघस्यादित्यमण्डलविषयकचाक्षुषप्रत्यक्षप्रतिबन्धकत्वमेव, तत्कथम्भावाकाङ्क्षोपशमनार्थमुक्तम् ' आलोक विथतुर्नयनपिधायकतया' इति, संसार्यात्मनः परिच्छिन्नान्तःकरणार्वाच्छन्नस्य.. परिच्छिन्नत्वमेवेत्यतः ' असंसार्यात्मनः' इत्युक्तम्, अज्ञानेनावरणं शुद्धचैतन्यस्वरूपस्य ब्रह्मण एव, तस्य देशपरिच्छेदाभावादपरिच्छिन्नत्वम्, अविद्यालक्षणाज्ञानस्याश्रयत्वम् विषयत्वं च शुद्धस्यैव चैतन्यस्य,
शक्तेरल्पस्यापि नयन पिधायकतयेव
यत उक्तम्
66
'आश्रयत्व - विषयत्वभागिनी, निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ १ ॥