________________
२२८]
__ [ तत्त्वबोधिनीविवृतिविभूषितम् काभेदः " एष सर्वेश्वरः" [बृहदारण्यकोपनिषद् ४, ४, २२ ] इति श्रुतेः, वन-तदवच्छिन्नाकाशयोर्जलाशय तद्गतप्रतिबिम्बाकाशयोवाऽऽधाराऽनुपहिताकाशवदनयोरज्ञान-तदुपहितचैतन्ययोराधारभूतं यद् अनुपहितचैतन्यं तत् तुरीयमित्युच्यते "शिवमद्वैतं चातुर्थ मन्यन्ते" इति श्रुतेः। इदमेव तुरीयं शुद्धं चैतन्यमज्ञानादितदुपहितचैतन्याभ्यामविविक्तं सत् 'सर्व ब्रह्मैव' तेजोबिन्दूपनिषद् ] इत्यादेः " तत् त्वमसि" [छान्दोग्योपनिषद् ६, ८, ७] इत्यादेवी महावाक्यस्य वाच्यम् , विविक्तं सल्लक्ष्यमिति चोच्यते । नाकाश वृक्षावच्छिन्नाकाशयोरभेदो यथा तथेत्यर्थः। जलाशयेतिजलाशयप्रतिबिम्बिताकाश जलप्रतिबिम्बिताकाशयोरभेदो यथा तथेत्यर्थः। प्राऽज्ञस्येश्वराभेदे श्रुति प्रमाणयति- एष सर्वेश्वर इति श्रुतेरिति । दृष्टान्तावष्टम्भेनोपहिता-ऽनुपहितचैतन्ययोराधाराधेयभावमुपपाद्यानुः पहितचैतन्यस्वरूपस्य ब्रह्मणस्तुरीयव्यपदेश्यत्वमुपदर्शयति- वन-तदवच्छित्रेति । आधारानुपहिताकाशवदिति- आधारभूतं यद् अनुपहितं शुद्धस्वरूपमाकाशं तद्वदित्यर्थः। शुद्धचैतन्यस्वरूपस्य ब्रह्मणस्तुरीयपदव्यपदेश्यत्वे श्रुतिं प्रमाणयति-शिवमद्वैतमिति। तुरीयचैतन्यव्यपदेश्यस्य ब्रह्मणो महावाक्यार्थत्वमावेदयति- इदमेवेति । 'सर्व ब्रह्मैव' इत्यादी सर्वस्य मायिकस्य ब्रह्माऽभिन्नत्वं ब्रह्मणि कल्पितत्वेनैव भवेत् , यतः कल्पितस्य वस्तुनोऽधिष्ठानसत्तातिरिक्तसत्ताकत्वाभावादधिष्ठानसत्त्व कल्पितस्य सत्ता, सा तदोपपद्येत यदि तत्तद्वस्तु स्वावच्छिन्नचैतन्याभिनं स्यात् , एवं च ब्रह्मणो मायादितस्तदुपहितचैतन्यतश्चाविविक्तस्य सतः "ब्रह्मैव” इत्यादिमहावाक्यस्य 'तत् त्वमसि' इत्यादि महावाक्यस्य च वाच्यत्वम् , यदा च पारमार्थिकस्य तुरीयचैतन्यस्य न परमार्थतः कल्पितान्मायादितस्तदुपहितचैतन्यादितोऽभेदः सम्भवतीति विचार्यते तदा विविक्तस्य तस्य कल्पितमायाद्यभेदरूपघाच्यार्थबाधात् सम्पूर्णस्योक्तमहावाक्यस्य शुद्धब्रह्मण्येव लक्षणेत्यत