________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २१७ कोपनिषद् , २, ५, १९] इत्यादिश्रुतेः । अत्र व्यस्त-समस्तव्यापित्वेन व्यष्टि-समष्टिताव्यपदेशः । इयं व्यष्टिनिकृष्टोपाधितया मलिनसत्त्वप्रधाना, तदुपहितं चैतन्यमल्पज्ञत्वाऽनीश्वरत्वादिगुणकम् 'अज्ञः' इत्युच्यते, एकाज्ञानावभासकत्वाद्, अस्पष्टोपाधितयाऽनतिप्रकाशत्वादस्य प्राज्ञत्वम् , अस्यापीयमहङ्कारादिकारणत्वात कारणशरीरम , आनन्द. प्रचुरत्वादेव हेतोरानन्दमयकोशः, सर्वोपरमात् सुषुप्तिः, स्थूलसूक्ष्मशरीरलयस्थानमिति चोच्यते । अनयोर्व्यष्टिसमष्टयोवन-वृक्षयोरिव जलाशयजलयोरिव वाऽमेदः, एतदुपहितयोरीश्वर प्राऽज्ञयोरपि वन वृक्षावच्छिन्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयोरिव वपि निष्प्रमाणकमनेकत्वं तत्र कथं श्रद्धेयमित्यतस्तत्रापि श्रुतिः प्रमाणमित्याशयेनाह- इन्द इति- इन्द्रः-आत्मा, मायाभिः- व्यष्टिरूपतयाऽनेकस्वरूपतामुपगताभिर्मायाभिः, पुरुरूपः- बहुरूपः, ईयते-भवती. त्यर्थः, अत्र मायाभिरिति बहुवचनेन मायाया अनेकत्वं सुस्पष्टमवभासते । अत्र मायायाम् । व्यस्तेति-व्यस्तन्यापित्वेन व्यष्टिताव्यपदेशः, समस्तव्यापित्वेन समष्टिताव्यपदेशः। व्यष्टिरूपमायायाः स्वरूपं तत्प्रयोजनं चोपदर्शयति- इयं व्यष्टिरिति-निकृष्टत्वं चास्या व्यस्तव्यापित्वमेव । तदुपहतं मलिनसत्त्वप्रधानाऽविद्योपहितम् । अस्य अज्ञशब्द. व्यपदेश्यत्वे हेतुः- एकाज्ञानावभास कत्वादिति। प्रकर्षणाऽज्ञः प्राऽज्ञ इति, तत्त्वे हेतुः- अस्पष्टोपाधि नयाऽनतिप्रकाशत्वादिति। अस्यापि प्राशस्यापि, अपिना यथा ईश्वरस्य समष्टिव्यपदेश्या माया सकलकारणत्वात् कारणशरीरमानन्दप्रचुरत्वादानन्दमयकोश इत्यादिस्तथेत्यर्थस्य सूचनम्। व्यष्टि समष्टिरूपाऽज्ञानलक्षणोपाध्योदृष्टान्तावष्टम्भनतोऽभेदो. पपादनद्वारा तदुपहितचैतन्यरूपयोरीश्वर-प्राज्ञयोरभेदमुपदर्शयतिभनयोयष्टि-समष्ठ्योरिति । एतदुपहितयोरिति- समष्टयुपहितचैतन्यरूपस्ये. श्वरस्य व्यष्टयुपहितचैतन्यरूपस्य प्राज्ञस्येत्यर्थः। वनेति-वनावच्छि,