________________
२१६ ]
[ तत्वबोधिनीविवृतिविभूषितम् न्तर्यामि जगत्कारणमीश्वर इति च व्यपदिश्यते, सकलाऽज्ञानावभासकत्वात् “यः सर्वज्ञः स सर्वविद्" इति श्रुतेः, अस्येयं समष्टिः सकलकारणत्वात् कारणशरीरम् , आनन्दप्रचुरत्वात् कोशवदाच्छादकत्वाचानन्दमयकोशः, सर्वोपरमलक्षणत्वात् सुषुप्तिः, अत एव स्थूल-सूक्ष्मप्रपञ्चलयस्थानमित्यप्युच्यते । __यथा च वनस्य व्यष्टयभिप्रायेण 'वृक्षाः' इति जलाशयस्य वा 'जलानि'इति इति अनेकत्वेन व्यपदेशस्तथाऽज्ञानस्यापि व्यष्टयभिप्रायेणानेकत्वव्यपदेशः “इन्द्रो मायाभिः पुरुरूप ईयते" [बृहदारण्यब्रह्मणो रूपम् , सर्वोपाधिविकलस्य चैतन्यस्य ब्रह्मस्वरूपस्य विशुद्धसत्त्वप्रधानमायोपहितत्वे सर्वज्ञत्वाद्यन्तर्यामित्वेश्वरत्वादिधर्मयोगित्वमित्यभिसन्धिः। कथमस्य सर्वज्ञत्वमित्यपेक्षायामाह- सकलाज्ञानावभासकत्वादिति-स्वकार्याशेषजगत्समन्वितत्वमेवाज्ञाने साकल्यम् । निरुक्तो. पाध्युपहितस्य चैतन्यस्य सर्वज्ञत्वे श्रुतिं प्रमाणयति - यः सर्वज्ञ इति । अस्य सर्वज्ञस्येश्वरस्य। इयम् अनन्तरोपवर्णिता विशुद्धसत्त्वप्रधाना माया। अस्या ईश्वरकारणशरीरत्वे हेतुः- सकलकारणत्वादिति। इयं समष्टिर्यथेश्वरस्य कारणशरीरं तथाऽऽनन्दमयकोशोऽपि, तत्रानन्दमयत्वे हेतुः- आनन्दप्रचुरत्वादिति । कोशत्वे हेतुः- कोशवदाच्छादकत्वादितिकोशो भण्डारः कपाटादिसङ्घटितदृढतमगृहविशेषः, स यथा रत्नसुवर्ण रजतप्रभृतीनि धनान्याच्छादयति तथा समष्टिरूपा मायाऽपि सच्चिदानन्दस्वरूपस्य ब्रह्मण आनन्दाद्यात्मस्वरूपात्मकं धनमावृणो. तीति भवति कोशकार्यकारित्वात् कोशः। सर्वोपरमेति- सर्व हि मायिकं स्थूल सूक्ष्मप्रपञ्चजातं तदानीमुपादानरूपायां मायायामनुद्भूतस्वस्वव्यापारं सद् विलीनं भवतीति सर्वोपरमस्वरूपत्वात् सुषुप्तिरियमित्यर्थः। अत एव सर्वोपरमलक्षणत्वादेव। __अज्ञानस्य व्यष्ट्यभिप्रायेणाऽनेकत्वव्यपदेशमुपपादर्यात- यथा चेति। ननु 'अजामेकाम्' इत्यादिश्रुतिप्रमाणादेकत्वस्य तत्र सिद्धा