________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २१५ स्वगुणैर्निगूढां [श्वेताश्वतरोपनिषद्- १, ३]" इत्यादिश्रुतेश्च सिद्धम् । इदमज्ञानं समष्टि-व्यष्ट्यभिप्रायेणैकमनेकमिति व्यवहियते, तथाहिधृक्षेषु 'वनम्' इतिवत् , जलेषु 'जलाशयः' इतिवच्च समष्ट्यभिप्रायेण नानात्वेन भासमानानामपि जीवगतानामज्ञानानामैक्यव्यपदेशः "अजामेकाम् [श्वेताश्वतरोपनिषद्- ४, ५]" इत्यादिश्रुतेः। ___इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना, तदुपहितं चैतन्यं सर्वज्ञत्व-सर्वेश्वरत्व-सर्वनियन्तृत्वादिगुणकदम्बकमव्यक्तं सदइति, ततश्च ‘अहमक्षः' इत्यनुभवाद् भावरूपक्षानं सिद्धम् । श्रुतिश्चात्मशक्तितयाऽज्ञानं प्रतिपादयति, न चाभावस्य शक्तिरूपतेत्यतोऽपि भावस्वरूपमज्ञानं स्वीकर्तव्यमित्याह-वेदेति - अत्र स्वगुणैः सत्त्व. रजस्तमोऽभिधानैस्त्रिभिः, निगूढां-व्याप्ताम्, आत्मन:-ब्रह्मणः, शक्तिमायाम् , यो वेद-जानातीत्यर्थः। अज्ञानं च द्विविधं समष्टिरूपं व्यष्टिरूपं च, तत्र समष्टिरूपतया तस्यैक्यं व्यष्टिरूपतया चानेकत्वमित्युपदर्शयति- इदमज्ञानमिति-समष्ट्यभिप्रायेण 'एकम्' इति व्यवह्रियते, व्यष्ट्यभिप्रायेण ‘अनेकम्' इति व्यवह्रियते, इत्यन्वयः। अनेकस्यापि समष्ट्यभिप्रायेणैकत्वं दृष्टान्तावष्टम्भतो भावयतितथाहीति। मायारूपाशानस्यैकत्वे श्रुति प्रमाणयति- अजामेकामिति 'अजा. मेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' [श्वेताश्वतरोपनिषद ४, ५] इत्येवंरूपात्र श्रुतिः। समष्टिरूपाज्ञानस्य प्रयोजनमुपदर्शयतिइयं समष्टिरिति । उत्कृष्टोपाधितया जगद्व्यापकत्वेनोत्कृष्टोपाधिरूपतया, ब्रह्म'विवर्तीभूतजगद्वयापिकापि माया ब्रह्मणोऽपरिच्छिन्नस्यैकदेशसमाश्रिततैवेति तत्परिच्छेदकत्वाद् भवत्युपाधिः। विशुद्धसत्त्वप्रधानेतिविशुद्धं रजस्तमोभ्यामुद्भताभ्यामविमिश्रं यत् सत्वं तत्प्रधानेयं समष्टिरूपा मायेत्यर्थः। तदुपहितं समष्टिरूपमायोपहितम् , चैतन्य